________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८१८
चरक संहिता। [अशचिकित्सितम हेतुलक्षणकालज्ञो बलशोणितकालवित् । कालं तावदुपेनेत यावन्नात्ययमाप्नुयात् ॥७३॥ अग्निसन्दीपनार्थश्च रक्तसंग्रहणाय च । दोषाणां पाचनार्थश्च परं तिक्तरुपाचरेत् ॥ ७४ ॥ यत् तु प्रक्षीणदोषस्य रक्तं वातोल्वणस्य च। वर्त्तते स्नेहसाध्यं तत् पानाभ्यङ्गानुवासनैः॥ ७५ ॥ यत् तु पित्तोल्वणं रक्तं घमकाले प्रवर्तते। स्तम्भनीयं तदेकान्तान्न चेद वातकफानुगम् ॥ ७६ ॥
गङ्गाधरः—यदि दुष्टरक्तस्रवणमुपेक्षेत ततश्च स ते दुष्टरक्त कस्य संग्रहणं कुर्यादित्यत आह-हेखित्यादि। यो वैद्यो हेखादिशः बलादिवित् स तावत्कालं रक्तमुपेक्षेत यावत्कालं रक्तस्रवेण पुमानत्ययं नाप्नुयात् । निःशेषेण दुष्टरक्तस्रवणे यद्यत्ययः स्यात् तदा मागत्ययाद रक्तसंग्रहण हितमिति ॥७३॥ ___ गङ्गाधरः-स्र ते दुष्टे रक्ते प्रागत्ययात् केन रक्तं संगृहोयादित्यत आहअग्रीत्यादि। स तदुष्टरक्तशेषरक्तसंग्रहणार्थ परमुत्कृष्टं यथा स्यात् तथा तिक्तैर्द्रव्यैरुपाचरेत् ॥ ७४॥
गङ्गाधरः-तत्र विशेषमाह-यत्त्वित्यादि। प्रक्षीणदोषस्य वातोल्वणस्य च यत् तु रक्तं प्रवर्त्तते, तद्रक्तं स्नेहसाध्यं स्नेहस्य पानाभ्यङ्गानुवासनः कर्मभिः साध्यम् ॥ ७५॥
गङ्गाधरः-यत् तु इत्यादि। यत् तु पित्तोल्वणमर्शसो रक्तं धर्मकाले ग्रोष्मकाले प्रवर्त्तते, तच्चेद् वातकफानुगं न स्यात् तदा खल्वेकान्तात् तद्रक्त स्तम्भनीयमत्ययभयात् ॥ ७६॥
चक्रपाणिः-हेत्वादिविशेषणेन स्रावस्योपेक्षा कार्येति सूचयति ॥ ७३ । ७४ ॥
चक्रपाणिः-वर्त्तते इति प्रवर्तते चेत् बातेऽनुबले स्नेहनं कफेऽनुबले तु उपेक्षणं वा लनादि कार्यमिति वा भावः ॥ ७५। ७६॥
For Private and Personal Use Only