________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६६
चरक-संहिता। [ अश्चिकित्सितम् चिकित्सितमतः सिद्धं स्त्राविणां संप्रचक्ष्यते। तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च ॥ ६७॥ विट श्यावं कठिनं रुक्षश्चाधोवायुर्न वर्त्तते । तनु चारुणवर्णश्च फेनिलञ्चास्सैगर्शसाम् ॥ कटारुगुदशलञ्च दौर्बल्यं यदि चाधिकम् । तत्रानुबन्धो वातरय हेतुर्यदि च रुक्षणम् ॥ ६८॥ शिथिलं श्वेतपीतञ्च विट स्निग्धं गुरु शीतलम् । यद्यर्शसां घनश्चास्मृक् तन्तुमत् पाण्डु पिच्छिलम् ॥ गुदं सपिच्छं स्तिमितं गुरु स्निग्धश्च कारणम् । श्लेष्मानुबन्धो विज्ञ यस्तत्र रक्तार्शसां बुधः ॥ ६६ ॥ शीतं निग्धं हितं वाते शीतं रुवं कफानुगे। चिकित्सितमिदं तरमात् संप्रधाऱ्या प्रयोजयेत् ॥ ७० ॥ गङ्गाधरः-चिकित्सितमित्यादि। अतः परं स्राविणां रक्तस्राविणामशसां सिद्धं चिकित्सितं प्रचक्ष्यते। तत्र साविष्वःसु द्विविधोऽनुबन्धः । श्लेष्मणोऽनुबन्धो वातस्यानुबन्धश्च । पित्तस्यारम्भकवादनुबन्ध्यत्वं न खनुबन्धखमिति ॥ ६७॥
गङ्गाधरः–तयोर्लक्षणमाह-विट् श्यावमित्यादि । विहिति विषशब्दः स्त्री. नपुंसकयोः। अर्शसामसम् च तनु च अरुणवर्ण फेनिलञ्च ॥६८॥ ___ गङ्गाधरः-- श्लेष्मानुवन्धलक्षणमा:-शिथिलमित्यादि। शीतलमित्यन्तं विविशेषणम् । पिच्छिलान्तमसाविशेषणम् । सपिच्छादिद्वयं गुदा विशेषणम् ॥ ६९ ॥ __गङ्गाधरः-तत्र चिकित्सासूत्रमाह-शीतमित्यादि। वाते वातानुबन्धे स्राविण्यशसि शीतं स्निग्धश्च वस्तु हितम्। पित्तरक्ताधिक्याच्छीतं वातानुबन्धात् स्निग्धं हितमिति मिलितं शीतस्निग्धं हितं न तु पृथक् । एवं कफानुगे शोतं रुक्षं हितम्। वाते कफे च शीतं विरोध्यपि पित्त
चक्रपाणिः-संप्रति अर्शसा वातानुबन्धं लक्षणच दर्शयित्वा भिन्नां चिकित्सामाह-त्राविणामित्यादि। अत च तन्त्रे पित्तजस्येव रक्तजान्यांसि दृष्टस्रावयुक्तानि ज्ञेयानीति ॥ ६७॥ ..
चक्रपाणिः-विट श्यावमिति निर्देशात् विशब्दो नपुंसकलिङ्गोऽप्यस्तीत्युचीयते ॥ ६८-७०॥
For Private and Personal Use Only