________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः चिकित्सितस्थानम् ।
२८६३ गुड़स्यैकां तुलां वैद्यस्तत् स्थाप्यं घृतभाजने। पक्षस्थितं पिबेद पक्वं ग्रहण्यर्थोविकारनुत् ॥ हृत्पाण्डुरोगं प्लीहानं कामलां विषमज्वरम् । वर्धोमूत्रानिलकृतान् विबन्धानग्निमाईवम् ॥ कासं गुल्ममुदावतं फलारिष्टो व्ययोहति । अग्निसन्दीपनो हेष कृष्णात्रयेण भाषितः॥ ६३॥
फलारिष्टः। दुरालभायाः प्रस्थन्तु वासायाचित्रकस्य च। अभयामलकानाञ्च पाठाया नागरस्य च ॥ दन्याश्च द्विपलान् भागान् जलद्रोणे विषाचयेत् । पादावशेषे शीते च पूते तस्मिन् सिताशतम् ॥ दत्त्वा कुम्भे दृढ़े स्थाप्यं मासाद्धं घृतभाविते। प्रलिप्ते पिपलीचव्य-प्रियङ्गुमधुसर्पिता ॥ तस्य मात्रां विवेत् काले शार्करस्य यथाबलम् । अशांसि ग्रहणीदोषमुदावर्त्तमरोचकम् ॥ शकुन्मूत्रानिलोद्गार-विबन्धाननिमार्दवम् । हृद्रोगं पाण्डुरोगञ्च सबमेतेन साधयेत् ॥ ६४ ॥
शार्करारिष्टः।। पुराणगुइस्य तुला वैद्यः प्रदापयेत् । घृतभाजने पक्षं स्थित कालपक्वं पिबेत् । शेषमाशीः। फलारिष्टः॥३॥ ___ गङ्गाधरः-दुरालभेत्यादि। दुरालभावासाचित्रकाणां प्रत्येकं प्रस्थम्, अभयादीनां दन्त्यन्तानां द्विपलान् भागान् नीखा जलद्रोणे विपाचयेत्। पादशेषे शीते वस्त्रंण पूतं च तस्मिन् काथे सिताशतं शर्करापलशतं दत्त्वा घृतभाविते पिप्पल्यादिना लिप्ते दृढ़े कुम्मे मासाद्धं तत् स्थाप्यम्। तस्य भनाईमुच्यते ; तेन हरीतकीप्रस्थार्द्धम् । अयं हि योगो द्विगुणमानेन यथा फलद्विप्रस्था काथो द्विगुणा आमलककपित्थपाटन्द्राः सहचित्रका गुडस्य च शतद्वयम्" तत्र पठितः ॥६३ । ६४॥
३६३
For Private and Personal Use Only