________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिकित्सितस्थानम् । रक्तशाल्योदनं दयाद रसैस्तैर्वातशान्तये। ज्ञात्वा वातोत्तरं रुक्ष मन्दाग्निं गुदजातुरम् ॥ ५५ ॥ मदिरां शर्कराजातां सीधुं तक तुषोदकम्। अरिष्टं दधिमण्डं वा शृतं वा शिशिरं जलम् ॥ कण्टकार्या श्रुतं वापि शृतं नागरधान्यकः। अनुपानं भिषग् दद्याद वातवर्धोऽनुलोमनम् ॥ ५६ ॥ उदावतपरीता ये ये चात्यर्थ विरुनिताः। विलोमवाताः शूलास्तेिष्विष्टमनुवासनम् ॥ ५७ ॥ पिप्पली मधुकं बिल्वं शताहां मदनं वचाम् । कुष्ठं शटों पुष्कराख्यं चित्रकं देवदारु च ॥ पिष्ट्रा तैलं विपक्तव्यं द्विगुणक्षीरसंयुतम् ।
प्रशंसां मूढ़वातानां तच्छृष्ठमनुवासनम् ॥ गावर:-रक्तेत्यादि। एवं रसान् साधयिखा त रसै रक्तशाल्योदनम् अर्शसाय वातशान्तये दद्यात्। तदभोजनादनुपानं भिषक गुदातर वांतोत्तर रुक्ष मन्दाग्नि शाखा शर्कराजातमदिरादिकं वातवर्होनुलोमन दद्यात् । शर्कराजातां मदिरा सीधु दधिमण्डं दधिमस्तु । भृतं पर्क शिशिरं शीतीकृतं जलं कण्ट कार्या शृतं वा जलं नागरधान्यकैः शृतं वा जलम् ॥५५॥५६॥
गहापरः-उदावतेत्यादि। येसा उदावर्तपरीता ये चासा विरुक्षिता विलोमवाता अननुलोमवाताः शूलाश्चि तेष्वर्शसेष्वनुवासनमिष्टम् ॥ ५७॥ . गार:-येनानुवासनमिष्टं तदाह–पिप्पलीमित्यादि। पिपत्यादीनि एकादश द्रव्याणि तेलात् पादिकानि पिष्ट्वा कल्कीकृस्य द्विगुणक्षीरसंयुत द्विगुणमलच तैलं विपक्तव्यम्। चतुर्गुणद्रवव्यतिरिक्तस्नेहपाकामावात्
पाणिः-शार्करमिति शर्कराकृतम् अरिष्टं वक्ष्यमाणम् ॥ ५५-५७ ॥
• मदिरां शार्करं जातम् इति चक्रस्वीकृतः पाठः ।
For Private and Personal Use Only