________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
REC
चरक संहिता |
[ अर्का
वर्हितित्तिरिलावानां रसानम्लान् सुसंस्कृतान् । दक्षाणां वर्त्तकानाञ्च दद्याद् विड़ वातसंग्रहे ॥ ५२ ॥ त्रिवृददन्तीपलाशानां चाङ्गेय्यश्चित्रकस्य च । यमके भर्जितं दद्याच्छाकं दधिसमन्वितम् ॥ उपोदिकां सराडुलीयं वीरो वास्तूकपल्लवान् । सुवर्चलां सलोणीकां यवशाकमवल्गुजम् ॥ अम्लिकां समहापत्रों काकमाचीं रुहां तथा । जोवन्तीश टिशाकश्च शाकं गृञ्जनकस्य च ॥ ददामि सिद्धानि यमकैर्भर्ज्जितानि च । धान्यनागर युक्तानि शाकान्येतानि दापयेत् ॥ ५३ ॥ गोधालावकमार्जार श्वाविदुष्ट्र गवामपि ।
कूर्म्मशल्लक योश्चैत्र साधयेच्छाकवद् रसान् ॥ ५४ ॥
गङ्गाधरः- वर्दीत्यादि । वर्धिप्रभृतीनां मांसरसान् वदरामलकादिभिरम्लेरम्लान् कृत्वा घृतादिना सुसंस्कृतान् विड़ वातसंग्रहे दद्यात् ॥ ५२ ॥ गङ्गाधरः - त्रिदित्यादि । त्रिवृदन्तीपलाशानां शाकं दक्तिमन्वितं यमके घृततैले भर्जितं दद्यात् । एवं चाङ्गेय्र्याः शाकं चित्रकस्य शाकश्च दद्यात् अर्शसाथ । अपराणि शाकान्याह - उपोदिकामित्यादि । उपोदिकादीनां शाकानि प्रत्येकं दधिदाड़िमसिद्धानि धान्यनागर चूर्णयुक्तानि यमके घृतवेले भर्जितानि दापयेत् । महापत्री गृहज्जम्बस्तस्याः पत्रम् ॥ ५३ ॥
गङ्गाधरः - गोधेत्यादि । यथोपदिकादीनां शाकानि साभ्येत् तथा गोधादीनां मांसस्य रसान् साधयेत् । दधिदाड़िमसिद्धान् धान्यवागरचूर्णयुक्तान् यमके भर्ज्जितान् कृत्वा दापयेत् । श्वाविच्छलकी च क्षुद्रहारभेदेन द्विधा शल्लकी ॥ ५४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चक्रपाणिः - अनुलोमिकानि शाकान्याह - ( चिघुपर्णो नादीपर्णी जालन्धरं । सुवर्चला सूर्य्यार्ता | महापकः इयोनाकः । रोहापत्रमुदमशाकम् । दधिकदि
· संस्कारम् ॥ ५१-५४ ॥
For Private and Personal Use Only