________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४ी अध्यायः] चिकित्सितस्थानम्। २८८७
गण्डीरं पिप्पलीमूलं व्योषं चव्य सचित्रकम् । पिष्टा कषाये विनयेत् पूते द्विपलिकं पृथक् ॥ पलानि सर्पिषस्तस्मिंश्चत्वारिंशत् प्रयोजयेत् । चाङ्गेरीखरसं तुल्यं सर्पिषो दधि षड़ गुणम् ॥ मृद्वग्निना साधयेत् तत् सिद्धं सर्पिर्निधापयेत् । तदाहारे प्रयोक्तव्यं पाने प्रायोगिके विधौ ॥ ग्रहण्यर्थोविकारघ्नं गुल्महृद्रोगनाशनम् । शोषनीहोदरानाह-मूत्रकृच्छ्रज्वरापहम् ॥ कासहिकारुचिश्वास-सूदनं पार्श्वशूलनुत् । बलपुष्टिकरं वर्ण्यमग्निसन्दीपनं परम् ॥ ५० ॥
पिप्पल्यायघृतम् । सगुड़ां पिप्पलीयुक्तामभयां घृतभर्जिताम् । त्रिवृट्दन्तीयुतां वापि भक्षयेदानुलोमिकीम् ॥ विड वातकफपित्तानामानुलोम्येन निर्मले।
गुदेऽशासि प्रशाम्यन्ति पावकश्चाभिवर्द्धते ॥५१॥ त्रिपलिकान् भागानष्टगुणे जले पक्त्वा पादशेष कषायमुपकल्पयेत् । तस्मिन् कषाये पूते गण्डीरादीनां पृथग द्विपलिकान् भागान् कल्कान् विनयेत् । अत्र सर्पिपश्चवारिंशत् पलानि चाङ्गेरीस्वरसं सर्पिषस्तुल्यं चलारिंशत् पलानि प्रयोजयेत् । दधि च पिः षड़गुणं प्रयोजयेत्। तत् सर्च मृमिना साधयेत् । सिद्धं तत् सर्पिर्निधापयेत् । तत् सर्पिराहारेऽन्नादिषु प्रयोक्तव्यं प्रायोगिक पाने नित्यपानविधौ च प्रयोत्तव्यमिति । शेषमाशीः । घृतम् ॥५०॥
गङ्गाधरः-सगुहामित्यादि। घृतभर्जितामभयां गुपिप्पलीभ्यां युक्त्या युक्तां त्रिन्तीचूर्णयुतां वानुलोमिकी भक्षयेत् । विड़ वातेत्यादि तदाशीः ॥५१॥
पाणिः--पिप्पलोनागरमित्यादौ काथस्यानुक्तमानत्वात् स्नेहसमत्वम् । तेन द्वादशपलेऽपि काभ्यद्रव्ये सिप्रस्थं पानीयं दत्वा चत्वारिंशपलानि स्थाप्यानि । गण्डीरमित्यादिना कल्कः ॥ ५० ॥
For Private and Personal Use Only