________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६९० चरक-संहिता।
अशाखाकारसतम् गुदनिःसरणं शूलं मूत्रकृच्छं प्रवाहिकाम् । कंटूररुपृष्ठदौर्बल्यमानाहं वक्षणाश्रयम् ॥ पिच्छालावं गुदे शोफ वातवचोविनिग्रहम् । उत्थानं बहुशो यच्च जयेत् तच्चानुवासनात् ॥ ५८ ॥ आनुवासनिकः पिष्टः सुखोष्णः स्नेहसंयुतैः । दाय॑न्तरौषधैदेह्याः स्तब्धाः शूना गुदेरुहाः॥ तैर्दिग्धाः प्रस्त्रवन्त्याशु श्लेष्मपिच्छां सशोणिताम् । कण्डूः स्तम्भः सरुक् शोफः स्तुतानां विनिवर्त्तते ॥ ५६ ॥ निरूह वा प्रयुञ्जीत सक्षीरं दाशमूलिकम् ।
समूत्रस्नेहलवणं कल्कयुक्तं फलादिभिः ॥ ६॥ अन्यत्र वाचनिकात्। उत्थानं प्रवाहिकावेगेण यच्च पुनःपुनर्वाप्रमोचनम्। शेषमाशीः॥५८॥ . गङ्गाधरः-अपरानुवासनमाह-आनुवासनिकरित्यादि। आनुवासनिकैः पिष्टैः स्नेहघृतादिसंयुतैः सुखोप्णरेतैः पूर्वोक्तः पिप्पलीमधुकादिभिः स्नेहयुक्तः मुखोष्णैः (दा दण्डविशेषेण) गुदेरुहा गुदजाः शुनाः स्तब्धाश्च देह्याः प्रलेप्या। तेरोषधैर्दिग्धाः ते गुदेरुहाः सशोणितां श्लेष्मपिच्छामाशु प्रस्रवन्ति। ततः स्र तानामर्शसां कपड़ादि विनिवर्तते ॥ ५९॥
गङ्गाधरः-निरुहं वेत्यादि। दाशमूलिकं काथं युक्त्या सक्षीरं गोमूत्रघृतादिस्नेहसैन्धवयुक्तं मदनफलादिभिः कल्कैयुक्तं वस्त्रपूतं ययाविधि निरुहं वा प्रयुञ्जीत ॥६॥
चक्रपाणिः-पिप्पल्यान तैले केचित् तन्त्रान्तरदर्शनात् तोयमपि चतुर्गुणं वदन्ति । तब तन्वान्तरोक्तयोगान्तरमेव पश्यामः ॥ ५ ॥
चक्रपाणिः-आनुवासनिकैरिति अनुवासनतैलसाधनार्थ युक्तैः पिप्पल्यादिभिः। पड़ विरेचनशताश्रितीयोक्तानुवासनोपदर्शककषायग्रहणप्रतिषेधार्थ दावन्तैरिति विशेषणभूतानि तानि दार्चन्तेनोक्तान्येव गृह्यन्ते ॥ ५९॥
चक्रपाणिः-दाशमूलिकमिति दशमूलकषाययुतम्। फलादिभिरिति मदनफलादिभिर्वथा. स्थापनयौगिकः ॥ ६॥
For Private and Personal Use Only