SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८८४ [ अर्शरितम् चरक संहिता | रक्तशालिर्महाशालिः कलमो लाङ्गलः सितः । शारदः षष्टिकश्चैव स्यादन्नविधिरर्शसाम् । इत्युक्तो भिन्नशतामर्शसानां क्रियाक्रमः ॥ ४४ ॥ येऽत्यर्थं गाढशकुतस्तेषां वक्ष्यामि भेषजम् । सस्नेहः सक्तुभिर्युक्तां प्रसन्नां लवणीकृताम् । दद्यान्मत्स्यण्डिकां पूर्व भक्षयित्वा सनागराम् ॥ ४५ ॥ गुड़ सनागरं पाठां फलाम्लं पाययेच्च तम् । गुड़ घृतं यवचारं युक्तं वापि प्रयोजयेत् ॥ यमानी नागरं पाठां दाडिमस्य रसं गुड़म् । सतकलवणं दद्याद् वातवर्चोऽनुलोमनम् ॥ दुःस्पर्श केन विल्वेन यमान्या नागरेण च । एकैकेनापि संयुक्त पाठा हन्त्यर्शसां रुजम् ॥ Acharya Shri Kailassagarsuri Gyanmandir गङ्गाधर - पेयाद्यर्थं धान्यान्याह - रक्तशालिरित्यादि । अर्शसामनविधिरेभिरिति शेषः । इत्युक्त इति । त्रपणं पिप्पलीमूलमित्यादिभिरेतदन्ते योगः भिन्नशकुतामर्शसानां पुंसां क्रियाक्रम उक्तः ॥ ४४ ॥ मङ्गारः - ये वर्शसा अत्यर्थगादृशकृतस्तेषां भेषजमत ऊर्द्ध वक्ष्यामि । सस्नेह रित्यादि । स्नेहयुक्तयवादिसक्तुभिर्मिश्रितां सैन्धवादिभिर्लवणीकृत मन मदिरामत्यर्थगाढ़ शक्रुद्धोऽर्शसेभ्यः दद्यात् । पूर्वं सनागरां मत्स्य ण्डिक गुरमध्ये स्वयंजातहीभूतां भक्षयित्वा दद्यात् ॥ ४५ ॥ गङ्गाधरः- गुड़ मित्यादि । नागरं पाठां चूर्णीकृत्य गुड़ मिश्रयिला फलेन अम्लीकृत्य जलेन गोलयिता तं गाढ़शकृतमर्शसं पाययेत् । यवक्षारयुक्तं गुड़े घृतं मेलयिता वा प्रयोजयेत् । यमानीमित्यादि । यमान्यादीनि वर्णीकृत्य दाड़िमरसगुड़लवणतक्राणि मिश्रयित्वा तस्मै गाड़शकृतेऽर्शसाय दद्यात् । दुःस्पर्शकेनेत्यादि । दुःस्पर्शको दुरालभा । दुःस्पर्शकादिभिः सर्वैः संयुक्ता पाठा । दुःस्पर्शादिन के केनापि संयुक्ता पाठाऽर्शसां गाढ़शकतां रुजं हन्ति । चक्रपाणिः- रक्तशाल्यादयोऽन्नपाने विहिताः ॥ ४४ ॥ ४५ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy