________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४श अध्यायः ]
चिकित्सितस्थानम् 1
एतैरेव खड़ान् कुर्य्यादेतश्च विपचेज्जलम् । एतरेव घृतं साध्यमर्शसां विनिवृत्तये ॥ ४० ॥ शटीपलाशसिद्धां वा पिप्पल्या नागरेण वा । दद्याद् यवागू' तक्राम्लां मरिचैरवचूर्णिताम् ॥ ४१ ॥ शुष्कमूलकयूषं वा यूषं कौलत्थमेव वा । दधित्थविल्वयूषं वा सकुलत्थमुकुष्टकम् ॥ ४२ ॥ छागलं वा रसं दद्याद घृतैरेभिर्विमिश्रितम् । लावादीनां फलाम्लं वा सतक ग्राहिभिर्युतम् ॥ ४३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चक्रपाणि: --- विश्वं बालविल्वं फलैर्दाड़िमादिभिः ॥ ४० ॥ चक्रपाणिः - दधिस्थं कपित्थं प्राहीत्युक्तम् ॥ ४१-४३ ॥
दद्यात् । एतैरेव पिप्पल्यादिभिः फलाम्लान्तैः खड़ान यूषान् कुर्य्यात् । पलार्द्धमेषां जलप्रस्थे पत्त्वार्द्धते तस्मिन् काये मुद्रादिविदलानि कायात् अष्टादशांशमितानि पक्त्वा चतुर्थांशशेषं कुर्य्यात् । एवम् एतः पिप्पल्यादिभिः जलप्रस्थमक्षमात्ररर्द्धशेषं विपचेत् । एवमेतेः पिप्पल्यादिभिः कल्करेषामेव घृतापेक्षया चतुगुणकाथे घृतं साध्यम् । अर्शसां विनिवृत्तये इति खड़ादिषु त्रिष्वेव बोध्यम् ॥ ४० ॥
गङ्गाधरः- शटीत्यादि । शटीपलाशवीजाभ्यां कल्काभ्यां काथरूपाभ्यां वा सिद्धां यवागूं पेयां पिप्पल्या सिद्धां वा नागरेण सिद्धां वा तक्राम्लां मरिचनुरूपेश्वचर्णितामर्शसां विनिवृत्तये दद्यादिति पूर्वेणान्वयः ॥ ४१ ॥
गङ्गाधरः- शुष्केत्यादि । शुष्कमूलकसिद्धं यूपमथवा कौलत्थपूर्ण शुद्धम् । अथवा सकुलत्थमुकुष्टकं दधित्थविल्वसाधितं यूषं दद्यात् । अथवा छागलं मांसरसमेभिः शय्यादिभिर्यवागूयूषसाधनैः साधिते घृतैर्विमिश्रितं दद्यात् । अथवा सलावादीनां मांसरसं फलाम्लं दाडिमामलकाद्यम्लं सतर्क ग्राहिभिर्विव शलाटुपाठादिभिर्युतं दद्यात् ॥ ४२ ॥ ४३ ॥
For Private and Personal Use Only
२८८३