________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८२
चरक-संहिता। [ अर्शश्चिकित्सितम् हतानि न विरोहन्ति तक्रण गुदजानि च। भूमावपि निषिक्तं तद् दहेत तक्र तृणोपलम् । किं पुनर्दीप्तकायाग्नेः शुष्काण्यांसि देहिनः ॥ स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः। तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते ॥ वातश्लेष्मविकाराणां शतश्चापि निवर्तते। नास्ति तक्रात् परं किञ्चिदौषधं कफवातजे ॥३६॥ पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् । शृङ्गवेरमजाजीञ्च कारवीं धान्यतुम्बुरुम् ॥ वित्वं कर्कटकं पाठां पिष्टा पेयां विपाचयेत् ।
फलाम्लां यमकैभृष्टां तां दद्याद गुदजापहाम् ॥ .. अनुशतघृतं वातोल्वणे मन्दानलाभावे प्रयोजयेत्। तक्रपयोगाशिष आहहतानीत्यादि। तक्रेण हतानि गुदजानि न पुनविरोहन्ति। यतः भूमौ निषिक्तमपि तत् तक्रं तृणोपलं तद्भूमिगतं दहेत् । दीप्तकायाग्नेः पुरुषस्य शुष्काण्यांसि यद दहेत्, किं पुनस्तत्र वक्तव्यमिति। तक्रशुद्धषु स्रोतःसु यो रसः आहारजः सम्यगुपैति तेन रसेनास्य धातुना पुष्ट्यादिरुपजायते वातश्लेष्मविकाराणां शतश्चार्शीवद् विनिवर्तयेदिति । इति तक्रमयोगः॥३९॥ ___ गङ्गाधरः-पिप्पलीमित्यादि। शृङ्गवेरं शुण्ठी, अजाजी जीरकं, कारवी क्षुद्रकृष्णजीरकं, विल्वं शलाटु, कर्कटकं कर्कटशृङ्गी। सर्व समभागेन पिष्ट्वा मध्यवादुभयभागित्वेन पलाई नीला पिष्ट्वा प्रस्थोन्मितजले पोट्टली बड़ा प्रक्षिप्य दरदलिततण्डुलं जलात् षष्ठांशं शनकैः पचेत् यवागूयथा स्यात् । अत्राम्लफलं तिन्तिडिकादिकमनुरूपं दद्याद यथाम्ला स्यात् । ततो घृते (मिश्रितघृततले) भर्जयेत् सम्भाररूपेण सन्तलयेत्। एवं सिद्धां पेयां गुदजापहां मन्दतममन्दतरमन्देषु अग्निषु बलेषु च अधममध्यमोत्तमेषु यथासंख्यं ज्ञेयम् । भूमावित्यादि केचित् पठन्ति। शतमिति विंशतिः श्लेष्मविकारा अशीतिर्वातविकारैमिलित्वा विकाराणां शतम् ॥३७-३९॥
For Private and Personal Use Only