SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४श अध्यायः] चिकित्सितस्थानम्। २८७६ चित्रकं हवुषां हि दद्याद् वा तकसंयुतम्।। पञ्चकोलयुतं वापि तक्रमस्म प्रदापयेत् ॥ ३५ ॥ हवुषोत्कुञ्चिकाधान्यमजाजी कारवी शटी। पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥ यमानी चाजमोदा च तच्चूर्ण तक्रसंयुतम् । मन्दाम्लं कटुकं विद्वान् स्थापयेद् घृतभाजने ॥ व्यक्ताम्ह कटुकं जातं तक्रारिष्टं मुखप्रियम् । प्रपिबेन्मात्रया कालेष्वन्नस्य तृषितस्त्रिषु ॥ दीपनं रोचनं बल्यं कफवातानुलोमनम् । गुदश्वयथुकण्डति-नाशनं बलवर्द्धनम् ॥ ३६॥ . तक्रारिष्टम्। . प्रदद्यात्। अथवा तक्रसंयुतं चित्रकहवुषाहिङ्गचूर्ण दद्यात् । अथवा पञ्चकोल. चूर्णयुक्तं तक्रमस्मै अर्शसाय प्रदापयेत् ॥ ३५॥ गङ्गाधरः-तक्रारिष्टमाह। हवूषा स्वनामख्याता, उत्कुञ्चिका स्थूलकृष्णजीरकम्, अजाजी जीरकं, कारवी क्षुद्रकृष्णजीरकम्। हषादीनि द्वादश द्रव्याणि समानानि चूर्णयिखा मिलितं तच्चूर्ण तक्रसंयुतं युक्त्या तक्रात् षोड़शांश मिश्रयिखा मन्दाम्लं तर्क कटकं हवषादियोगाद् घृतभाजने स्थापयेत्, यावता दिनेन जातं व्यक्ताम्लं कटकं स्यात्। तक्रारिष्टं मुखप्रियं भवति । तत् त्रिषु कालेषु पिवेत्। अन्नस्य द्वौ कालौ, यदा तृषितः तत्र चैककाल. मिति। तक्रारिष्टम् ॥३६॥ शक्त्यपेक्षया दशमो भागः। उक्तं हि चूर्णे तर्पणभागैर्नवभिः संयोजनीयम्, अन्ये तु तर्पणभल्लातक. चर्पयोः समानयोः स्तोकस्य द्रव्यस्य प्रयोगमाहुः। तर्पणन्तु इपुषत्यायतम् ॥ ३५ ॥ - चक्रपाणिः-तक्रारिष्टे तु ग्रहणीचिकित्सायां "यमान्यामलकं पथ्या मरिचं त्रिफलांशिकम् । करणानि पलांशानि पञ्च चैकस चूर्णयेत। तक्रकंसासुतं जातं तक्रारिष्टं पिबेन्नरः" । इत्युक्ततक्रानुसारेण इहापि तक्रचूर्णसमानव्यवस्था। हपुषेति चूर्णेन व्यक्ताम्लकटुकं तक भवति । शिषु कालेविति भोजनाथमध्यान्तेषु ॥३६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy