SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८७८. चरक-संहिता। अश्चिकित्सितम् पाचनं पाययेद् वा तद् यद् वक्ष्याम्यतिसारिणे। सगुड़ामभयां वापि प्राशयेत् पौर्वभक्तिकीम् ॥ पाययेद् वा त्रिवृच्चूर्ण त्रिफलारससंयुतम्। हृते गुदाश्रये दोषे गुदजा यान्ति संक्षयम् ॥ गोमूत्राध्युषितां दद्यात् सगुड़ां वा हरीतकीम् । हरीतकी तक्रयुक्तां त्रिफलां वा प्रयोजयेत् ॥ सनागरं चित्रकं वा सीधुयुक्तं प्रदापयेत्। दापयेच्चव्ययुक्तं वा सीधं साजाजिचित्रकम् ॥ सुरां सपाठां हवूषां दद्यात् सौवर्चलान्विताम् । दधित्थविल्वसंयुक्तं युक्तं वा चव्यचित्रकैः॥ भल्लातकयुतं वापि प्रदद्यात् तक्रतर्पणम् । विल्वनागरयुक्तं वा यमान्या चित्रकेण च ॥ - गङ्गाधरः-पाचनमित्यादि। अथवाऽतिसारिणे यत् पाचनं वक्ष्यामि, तत् पाययेत् । अथवा सगुडामभयां पौर्वभक्तिकी प्राग भोजनात् तं गुदश्वयथुशूलार्त मन्दाग्निं हृतरक्तं रक्तार्शसं प्राशयेत्। त्रिफलारससंयुतं त्रिवृच्चर्ण वा पाययेत् । इति । रक्तावसेचनानन्तरमेभियोगेणु दाश्रये दोषे हृते सति गुदजाः संक्षयं यान्ति । अपरान् योगानाह-गोमूत्रेत्यादि। गोमूत्रे पय्येषितां हरी: तकी सगुड़ां दद्यात् । अथवा तक्रयुक्तां हरीतकी प्रयोजयेत् । तक्रयुक्तां त्रिफलां वा प्रयोजयेत् । अथवा सीधुयुक्तं सनागरं चित्रकं प्रदापयेत् । चव्याजाजीचित्रकचूर्णयुक्तं सीधु दापयेच्च । पाठाहवुषासौवर्चलयुक्तां सुरां वा दद्यात् । दधिस्थविल्वशलाटुचूर्णसंयुक्तं तक्रतपणं तक्रेण आलोड़ितं. सक्तुं प्रदद्यात् । अथवा चयचित्रकचूर्णयुक्तं तक्रतर्पणं प्रदद्यात्। अथवा भल्लातक: चर्णयुतं. तक्रतपणं प्रदद्यात्। एवं विल्वशलाटुचणनागरचूर्णयुक्तं तकतर्पणं प्रदद्यात्। यमान्या सह तक्रतपणं चित्रकेण च सह तकतर्पणं चक्रपाणिः-गोमूत्राध्युषितामिति रात्रौ गोमूत्रसिद्धाम् । भल्लातकयुतमित्या भल्लातकचूर्णस्य For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy