SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४श अध्यायः ] चिकित्सितस्थानम् विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च । कार्श्यमुद्गार बाहुल्यं सक्थिसादोऽल्पविकता ॥ ग्रहणीदोषपाण्डुत्तेराशङ्का चोदरस्य च । पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये ॥ १६ ॥ अशसि खलु जायन्ते नासन्निपतितैस्त्रिभिः । दोषैर्दोष विशेषैस्तु विशेषः कल्प्यतेऽर्शसाम् ॥ १७ ॥ पञ्चात्मा मारुतः पित्तं कफो गुदबलित्रयम् । सर्व्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ॥ २८६६ गङ्गाधरः- जातस्योत्तरकालजानां पूर्व्वरूपाण्याह-- विष्टम्भ इत्यादि । आटोपो गुड़गुड़ाशब्दः कुक्षेः । ग्रहणीदोषस्य पाण्डुत्तेरुदरस्य चाशङ्का, न तु ग्रहणीदोषः पाण्डत्तिश्वोदररोगथ । अभिवृद्धये उत्पत्तये ॥ १६ ॥ गङ्गाधरः- नन्वेकैकदोषजानि किं न भवन्तीत्यत आह-असीत्यादि । त्रिभिर्दोषः असन्निपतितः संहतव्यतिरिक्तर्न खल्वसि जायन्ते । तत्र सन्निपतिते दोषे पुनर्दोषविशेषैस्तु उल्वणदोषरर्शसां विशेषः कल्प्यते । इति ।। १७ गङ्गाधरः- ननु गुदवलिदेशे भवन्त्यसि कथमूरूकटिपार्श्वादिशुलशिरोSearपादीनि जायन्त इत्यत आह - पञ्चात्मेत्यादि । पञ्चात्मा मारुतः प्राणापानसमानोदानव्यानाः । पञ्चात्मकं पित्तं पाचको रञ्जकः साधक आलोचको भ्राजकश्चेति पञ्चविधोऽग्निः शरीर एवेति । तदुक्तं सुश्रुते - " न खलु पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते । आग्नेयत्वात् पित्ते दहनपचनादिष्वभिवर्त्तमानेऽग्निवदुपचारः क्रियतेऽन्तरनिरिति । क्षीणे ह्यग्निगुणे तत्समानद्रव्योपयोगादतिवृद्धे शीतक्रियोपयोगात् आगमाच्च पश्यामो न खलु पित्तव्यतिरेकादन्योऽग्निरिति । तचादृष्टहेतुकेन विशेषेण पकामाशयमध्यस्थं पित्तं चतुर्व्विधमन्नपानं पचति 1 For Private and Personal Use Only चक्रपाणिः विष्टम्भोऽप्रचालत्वम्, आटोपो गुड़गुड़ो शब्दः ॥ १६ ॥ चक्रणिः -- अर्शसां त्रिदोषजन्यत्वेऽपि एक दोषजत्वादिव्यपदेशमाह-अशीं सीत्यादि । यद्यपि सन्निपतितैरित्युक्ते त्रयाणां मेलको लभ्यते, तथापि विभिरिति पदं वयाणामप्यस अनुबन्ध्यत्वस्य तथाच हीनपादस्योपदर्शनाथः: । दोषविशेषादिति उल्वणरूपादिविशेषात् । विशेष इति बातजोऽयं इत्यादिको विशेषः ॥ १७ ॥ ३६०
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy