________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६८
चरक-संहिता। अश्चिकित्सितम् श्मरीशर्कराहृदयेन्द्रियोपलेपास्यमाधुर्यप्रमेहकराणि तथा चिरकालानुवन्धोन्यतिमात्रमग्निमार्दवक्तव्यकराण्यामविकारकर-प्रबलानि शुक्लनखनयनवदनत्वमूत्रपुरीषस्य श्लेष्मोल्वणान्यशांसीति विद्यात् ॥ १३॥
." भवन्ति चात्र। मधुर्रास्नग्धशोतानि लवणाम्लगुण च । अव्यायामदिवास्वप्न-शय्यासनसुखे रतिः ।। प्राग्वातसेवा शीतौ च देशकालावचिन्तनम् । श्लैष्मिकाणां समुदिष्टमेतत् कारणमर्शसाम् ॥ १४॥ हेतुलक्षणसंसर्गाद विद्याद द्वन्द्वोल्वणानि च।
सवों हेतुस्त्रिदोषाणां सहजैर्लक्षणः समम् ॥ १५ ॥ पीड़ा। (अलसकोऽजीर्ण जरोगविशेषः) हृदयस्य चेन्द्रियाणाञ्चोपलेपः । चिरकालानुबन्धीनीति दीर्घकालानुशयानीत्यर्थः। आमविकाराणामपकरोगाणां करेषु प्रवलानि। शुक्लनख देः पुरुषस्य तानि इलेष्मोल्वणान्यसीति विद्यात् ॥१३॥ __ गङ्गाधरः-तत्र हेतुवचने श्लोकावेतो भवतः । द्वन्द्वसन्निपातानामेक इति त्रयः श्लोकाः। मधुरेत्यादि। शीतौ देशकालो यो व्याख्यातौ वातोल्वणाना. मिति ॥१४॥ .. गङ्गाधरः-हेतुलक्षणेत्यादि । उक्तानां वातोल्वणादीनां द्वयोद्वैयोतुसंसर्गाद द्वन्द्वोल्वणानि भवन्ति। तेषां द्वयोर्द्वयोर्लक्षणसंसर्गाद द्वन्द्वोल्वणानि चाशांसि विद्यात्। त्रिदोषाणां त्रिदोषोल्वणानामर्शसां सवौ वातोल्वणादीनां प्रयाणां हेतुः। लक्षणन्तु त्रिदोषाणां सहजैः सहजाशोऽभिहितैर्लक्षणैः समं तुल्यमिति ॥१५॥
चक्रपाणिः-तत्र यानि इत्यादिना कफजमाह। प्रमाणवन्तीति महाप्रमाणानि । सुप्तसुप्तानि इत्यत्यर्थ निश्चेतनानि । दीर्घकालानुपशयानीति दीर्घकालानुबन्धीनि । १३ । १४ ॥
चक्रपाणि:--हेतुलक्षणत्यादौ उल्वणपदेन द्वन्द्वजे तृतीयोऽपि दोषः जनकोऽस्त्येव। परं सोल्वणी न भवतीति दर्शयति। सो हेतुरिति यथोक्तसहेतुः, सहजैः लक्षणैः सह सो हेतुस्त्रिदोषाणां भवति। तेन सिदोषे सर्वहेतुत्वात् सहजानि लक्षणानि भवन्तीत्यर्थः ॥ १५॥
For Private and Personal Use Only