________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः
चिकित्सितस्थानम्।
२८६७
भवतश्चात्र।
कटुम्लवणोष्णानि व्यायामाग्न्यातपप्रभाः। देशकालावशिशिरौ क्रोधो मद्यमसूयनम् ॥ विदाहि तीक्ष्णमुष्णश्च सर्व पानान्नभेषजम् । पित्तोल्वणानां विज्ञ यः प्रकोपे हेतुरर्शसाम् ॥ १२॥ तत्र यानिप्रमाणवन्त्युपचितानि श्लदणानि स्पर्शसुखानि श्वेतपाण्डुपिच्छिलानि स्तब्धानि गुरूणि स्तिमितानि सुप्तानि स्थिरश्वयथूनि कण्डूबहुलानि बहुप्रततपिञ्जरश्वेतरक्तशुक्लपिच्छास्रावीणि गुरुपिच्छिलश्वेतमूत्रपुरोषाणि रुनोपशयानि प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति परिकर्तिकाहृल्लासनिष्ठीवनकासारोचकप्रतिश्यायगौरवच्छर्दिमूत्रकृच्छ्र-शोथशोष - पाण्डुरोग-शीतज्वरा.
पीतं विस्रगन्धं प्रचुरं विष्मूत्रं यतस्तानि पिपासादिकराणि पीतनखादिमतः पुसस्तानि पित्तोल्वणान्यशांसीति विद्यात् ॥११॥ ___ गङ्गाधरः-एषां हेतुवचनश्लोकावत्र भवतः। कदम्लेत्यादि। अग्न्यातपयोः प्रभा। अशिशिरावुष्णो देशकालौ। तीक्ष्णमुष्णश्च पानश्चान्नश्च भेषजश्च । पूर्वमुक्तं यदुष्णं तत् स्पर्शनोष्णमित्यपौनरुक्त्यम्। पित्तोल्वणानां पित्तप्रधानत्रिदोषजानाम् ॥ १२॥
गङ्गाधरः-तत्र यानीत्यादि। प्रमाणवन्ति प्रकृष्टपरिमाणानि । उपचितानि स्थूलानि। स्पर्शसुखानि स्पर्शने सुखशानं यत्र। स्तब्धानि अवलितानि । स्तिमितान्यार्दीभूतानि । सुप्तानि स्पर्शाभिज्ञानहीनानि । स्थिरः श्वयथुमुखादिषु यत्र तानि। बहु च प्रततश्च पिङ्गलादिपिच्छास्रावीणि। गुर्वादिनी मूत्रपुरीष यतस्तानि । रुक्षोष्णोपशयवन्ति । प्रवाहिका कुन्थनपूर्बकवच्चेस्त्यागः, अतिमात्रो. स्थानं पुनःपुनर्वर्चस्त्यागः, वक्षणानाहो वकणबन्धः। परिकत्तिका गुदै कत्र्तनवत्
चक्रपाणिः-कटम्लेत्यादौ प्रथममुष्णपदं उष्णस्पर्शोपदेशार्थ', द्वितीयमुष्णपदं उष्णवीर्योपपर्शनार्थम् । कटम्ललवणक्षार इति वा पाठः ॥ १२ ॥
For Private and Personal Use Only