________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६६
चरक-संहिता। [अश्चिकित्सितम्.
भवतश्चात्र। कषायकटुतिक्तानि रुक्षशीतलघूनि च । प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् ॥ लङ्घनं देशकालो च शीतौ व्यायामकर्म च । शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः ॥१०॥
मृदुशिथिलसुकुमाराण्यस्पर्शसहानि रक्तपीतनीलकृष्णानि स्वेदोपक्लेदबहुलानि विस्रगन्धानि तनुपीतरक्तस्रावीणि रुधिरवहाणि दाहकण्डशूलनिस्तोदपाकवन्ति शीतोपशयानि संभिन्नपीतहरितवच्चीसि पोतविरगन्धप्रचुरविणमूत्राणि पिपासाज्वरतमकसंमोहभोजनद्वषकराणि पीतनखनयनत्वमूत्रपुरीषस्य पित्तोल्वणान्यांसीति विद्यात् ॥११॥ . गङ्गाधरः-भवतश्चेत्यादि। अस्य वातार्शसो हेतुवचनश्लोको भवतः। कषायेत्यादि । प्रमितादत्यल्पमात्रावदशनादल्पाशनं प्रमिताल्पाशनं, तीक्ष्णमिति मद्यविशेषणम् । देशकालौ शीतौ शीतो देश आनूपः, शीतः कालो हेमन्तादिः । वातातपयोः प्रचण्डवातस्यातपस्योष्णस्य रुक्षत्वेन वातप्रकोपकसमिति वातासां हेतुः ॥१०॥ - गङ्गाधरः-मृदुशिथिलेत्यादि। यान्यशीसि मृदूनि शिथिलानि सुकुमाराणि कोमलानि अस्पर्शसहानि रक्तादीनि स्वेदादिबहुलानि विरगन्धीनि तन्वादिसावीणि तनु अघनं दाहादिमन्ति सम्भिन्नं पीतं हरितं वचर्चा यतस्तानि
चक्रपाणिः-तदनु कषायेत्यादिना हेतु वक्ष्यति। एवं पित्तकफजयोरपि व्यतिक्रमेण हेतुलिङ्गाभिधानं ज्ञेयम् । प्रमिताशनमत्र अत्यल्पाशनम् , अल्पाशनं माताहीनमशनम्। आतपस्पर्शः यद्यप्युष्णस्तथापि रूक्षतया वातजनकः। उक्तं हि आतपः कटुको रुक्ष इत्यादि ॥१०॥
चक्रपाणिः-मृद्वित्यादिना पित्तजं प्राह । शिथिलानि कोमलानि । सुकुमाराणोति अकर्कशानि । तनुपीतरक्तस्रावीणीत्यस रक्तशब्देन लोहितशब्द उच्यते। रुधिरवहाणीति पदेन रक्तस्नु तिरेवोच्यते। प्रथमं विनगन्धीनीति रक्तविशेषणम्। द्वितीयं विनगन्धित्वं विग्मूखविशेषणम्। प्रथमं पीताभिधानं वर्चसः हरितपीतोपदेशार्थम् । द्वितीयन्तु विस्त्रगन्धिना सह पीतवर्णतोपदेशार्थम् । तृतीयन्तु पीतनखेत्यादौ केवलं पीतवर्णतोपदर्शनार्थम् ॥ ११॥ . .
For Private and Personal Use Only