________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श भध्यायः ]
चिकित्सितस्थानम् |
२८६५
तुण्ड जिह्वापद्ममुकुलकर्णिकासंस्थानानि सामान्याद् वातपित्तकफप्रबलानि ॥ ८ ॥
तेषामयं विशेषः - शुष्कम्लानकठिनपरुषरुक्ष श्यावानि वाणि तीक्ष्णायानि स्फुटितमुखानि विषमस्सृतानि शूलाचेपभेदस्फुरणचिमिचिम संहर्षपरीतानि स्निग्धोष्णोपशयानि प्रवाहिकाध्माना स्निग्ध- वृषणवस्तिवन ण हृदयहाङ्ग मर्द हृदयद्रवप्रच - लानि तत्र प्रततविबद्धवातमूत्रवच्च स्यूरुक टिपृष्ठ त्रिकपार्श्वकुक्षि- वस्तिशूल शिरोऽभितापक्षवथुद्द्वारप्रतिश्याय कासोदावर्त्तायासशोथशोष- मूर्च्छारोचकमुख वैरस्य ते मिर्य्यकण्डूना साकर्णशूलस्वरोपघातकराणि श्यावारु एपरुषत्वङ्नयननखवदनमूत्रपूरीपस्य वातोल्वणान्यसीति विद्यात् ॥ ६ ॥
करीरस्याग्रम् | अङ्गष्ठाग्रसंस्थानानि । दक्षशिखिनोस्तुण्ड जिहासंस्थानानि । पद्मकुमुदयोः कर्णिकासंस्थानानि । एतदेतत् संस्थानान्यशांसि वातपित्तकफमबलानि । सामान्यात् वातप्रवलानि च पित्तमवलानि च कफमबलानि चासि सपादिसंस्थानानि भवन्ति ॥ ८ ॥
गङ्गाधरः- तेषामित्यादि । तेषां त्रयाणामयं विशेषो वक्ष्यते । शुष्कम्लानेत्यादि । यान्यशांसि शुष्कादीनि तीक्ष्णाग्रादीनि शुचादिपरीतानि स्निग्धोपरायानि प्रवाहिकादिप्रबलानि । तत्रास्त्रिग्धानि रुक्षाणि वृषणवस्तिवङ्गणानि । प्रततं सन्ततं विवद्धानि वातमूत्रवचांसि यतस्तानि । ऊरु - कव्यादिथूलशिरोऽभितापादिना साकणेश उखरोपघातकराणि । श्यावादिवर्णनखादिमतः पुरुषस्य तानि वातोल्वणान्यांसीति विद्यात् ॥ ९ ॥
चक्रपाणिः - टिण्टिकेरं कटीरफलम् । दक्षः कुक्कटः । सामान्यात् वातपित्तकफप्रबलानि, इत्यनेन सव्वैर्दोषैः अर्शसां नानाकृतिं दर्शयति ॥ ८ ॥
:
चक्रपाणिः - लिङ्गादिसामान्ये वातजादीनां किं विशेषनिश्चायकमित्याह -- तेषामयं विशेष इति । अयमिति वक्ष्यमाणलिङ्गहेतुभेदरूपो विशेषो वातजादिव्यवच्छेदक इत्यर्थः । यद्यपि विशेषाभिधाने हेतुरेवाग्रेऽभिधातु युज्यते, तथापि संस्थानरूप लिङ्गाभिधानानुषङ्गात् प्रतिलोमsurenानाद्वा लिङ्गमेवा ऽभिधीयते शुष्कम्लानेत्यादिना ॥ ९ ॥
For Private and Personal Use Only