________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८७०
चरक-संहिता। [अविकित्सितम् तस्मादीसि दुःखानि बहुव्याधिकराणि च।
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ॥१८॥ विरेचयति च रसदोषमूत्रपुरीषाणि। तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं करोति । तस्मिन् पित्ते पाचकोऽग्निरिति संशा। यत् तु यकृतप्लीह्रोः पित्तं तस्मिन् रञ्जकोऽनिरिति संज्ञा, स रसस्य रागकुदुक्तः। यत् पित्तं हृदयसंस्थितं तस्मिन् साधकोऽग्निरिति संज्ञा, सोऽभिप्रार्थितमनोरथसाधनकदुक्तः। यद् दृष्टयां पित्तं तस्मिन्नालोचकोऽग्निरिति संशा, स रूपग्रहणेऽधिकृतः। यत् तु खचि पित्तं तस्मिन् भ्राजकोऽग्निरिति संज्ञा, सोऽभ्यञ्जनपरिषेकावगाहावलेपनादीनां क्रियाद्रव्याणां पक्ता छायानाश्च प्रकाशकः। भवति चात्र । पित्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथैव च । उष्णं कट सरञ्चैव विदग्धश्चाम्लमुच्यते।” कफश्च पञ्चात्मा क्लेदकश्चावलम्बकश्च बोधकश्च तकश्च श्लेषकश्चेति। तदुक्तं सुश्रुते-“तत्रामाशयः पित्ताशयस्योपरिष्टात् तत्मत्यनीकखादूद्ध गतिखात् तेजसश्चन्द्र इवादित्यस्य स चतुर्विधाहारस्याधार। तत्रौदकैगुणैराहारः प्रक्लिन्नो भिन्नसंघातः सुखजरश्च भवति। माधुर्य्यात् पिच्छिलखाच प्रक्लेदिखात् तथैव च । आमाशये सम्भवति श्लेष्मा मधुरशीतलः। स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणानुग्रहं करोति, तस्मिन् श्लेष्मणि क्लेदक इति संज्ञा। यस्तूर स्थानिकसन्धारणमात्मवीर्येणानरससहितेन हृदयावलम्बनं करोति, तस्मिन्नबलम्बक इति संज्ञा। यस्तु जिह्वामूलकण्ठस्थो जिढे न्द्रियस्य सौम्यसात् सम्यग्रसशाने वर्त्तते, तस्मिन् बोधक इति संज्ञा। यस्तु शिरःस्थः स्नेहसन्तर्पणाधि कृतवादिन्द्रियाणामात्मवीयेणानुग्रहं करोति तरिमंस्तर्पक इति संज्ञा । सन्धिस्थस्तु श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति, तस्मिन् श्लेषक इति संज्ञा। भवति चात्र। श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिल: शीत एव च । मधुरस्वविदग्धः स्याद विदग्धो लवणः स्मृतः।” इति। गुदलित्रयं तिस्त्र एव गुदवलयः। इत्येते सव्वे एव गुदजानामशंसां समुद्भवे प्रकुप्यन्ति। तस्मात् पश्चात्मवायुपश्चात्मपित्तपश्चात्मकफगुदवलित्रयकोपाज्जातान्यशासि दुःखानि बहुव्याधिकराणि। एवं सर्वदेहधारकस+वातातिप्रकोपात् सम्म देहाना नखनयनवदनादीनामुपतापीनि भवन्तीति ॥१८॥ चक्रपाणिः--पञ्चास्मेति प्राणापानव्यानोदानसमानरूपः ॥ १८ ॥
For Private and Personal Use Only