________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः]
चिकित्सितस्थानम्।
२८६३ . अत ऊर्द्ध जातस्योत्तरकालजातानि चाशीसि व्याख्यास्यामः। गुरुशीताभिष्यन्दिविदाहिविरुद्धाजीर्णप्रमिताशनासात्म्यभोजनाद् गव्यमात्स्यकौक्क टवाराहमाहिषाजाविकपिशितभक्षणात् कृशशुष्कपूतिमांसपैष्टिकपरमानक्षीरदधिमण्डकतिलगुड़विकृतिसेवनाच्च माषयूषेक्षुरसपिण्याकपिण्डालुशुष्कशाकशुक्तकिलाटतक्रपिण्डकविसमृणालशालूकक्रौञ्चादनकशेरुकशृङ्गाटकतरूटविरूढ़नक्शूकशमीधान्याममूलकोपयोगात् गुरुफलशाक-रागहरित-करमईकवसाशिरस्पदपर्युषितपूतिशीतान्नसंकीर्णाभ्यवहारात्मन्दकातिक्रान्तमद्यपानाद व्यापन्नगुरुसलिलपानात् अतिस्नेहपानाद असंशोधनाद वस्तिकमविभ्रमादव्यायामाव्यवायात् दिवास्वप्नात् सुखशयनासनस्थानसेवनाच
गङ्गाधरः-अतऊर्द्धमिति । अतःपरं जातस्योत्तरकालजान्यशांसि व्याख्यास्यामः। गुरुशीतेत्यादि। गुर्वादिद्रव्यभोजनात् गव्यमांसादिभक्षणात् कृशशुष्कशरीरस्य जन्तोमांससेवनात् पूतिमांससेवनाच पैष्टिकमद्यादिसेवनाच माषयषादुरपयोगाच ; पिण्याकस्तिलकल्कः, पिण्डालुवत्तलाकार आलः, शुक्तं सन्धान विशेषः, किलाटस्तक्रकूच्चिका, तक्रपिण्डको भक्ष्यविशेषः, विसं वृहन्मृणालं, मृणालं क्षुद्रं, पद्मादीनां कन्दः शालक, क्रौश्चादनो घेञ्चुलुकः, तरुटः चिचुया, विरूढच नवञ्च शूकशमीधान्यम्, आममूलकम्, एषामुपयोगात् ; गुरुफलशाकयोः राग आचार इति लोके, हरितानि शृङ्गवेरधान्यमधुरिकादीनि, करमईः करञ्जः। वसा वपा जन्तूनां मांसार्थ शिरस्पदं, पय्यु. षितश्च पूति च शीतश्चान्नस्य सङ्कीर्णस्य मिलितनानाद्रव्यस्याभ्यवहारात, मन्दकं मन्दजातमतिक्रान्तं कालातिक्रमेण स्वगुणहीनञ्च मद्यम्, व्यापन्नं स्वगुणशीताव्यक्तरसादितो व्यापदयुक्तं स्थानादियोगाद गुरु च सलिलम्, अतिस्नेहपानादवमन विरेचनात्, वस्तिकर्मणो विभ्रमाद् अयथावत
चक्रपाणिः-गुरुशीतेत्यादौ प्रमितमल्पम्, कृशं दुर्बलं, परमान्नं पायस, पिल्याकं तिलकल्कः । किलाटो नष्टक्षीरपिण्डस्तक्रपिण्डस्तु तक्रजो धनभागः। विसं स्थूलं मृणालम्, मृणालं क्षुद्रम्, क्रौञ्चादनं घेन्चुलिक इति ख्यातः। तरूट निष्कारकः। संकीर्णमांसभक्तादि मिश्रप्रकृतिकमन्नं
For Private and Personal Use Only