SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६२ चरक संहिता। अशश्चिकित्सितम् विबद्धशुक्ताम्लोद्वारः सुदुर्बलः सुदुर्बलाग्निः क्रोधनः स्वल्पशुको दुःखोपचारशीलः कासश्वासतमकतृष्णाहृल्लासच्छदारोचकाविपाकपोनसतवथुपरीतस्तैमिरिकः शिरःशूली क्षामभिन्नसंसक्तजर्जरखरः कर्णरोगो शूनपाणिपादवदनानिकूटः सज्वरः सागमईः सर्वपास्थिशूली च अन्तरान्तरा पार्श्वकुक्षिवस्तिहृदयपृष्ठत्रिकग्रहोपतप्तः प्रध्यानपरः परमलसश्चात । जन्मप्रभृत्यस्य हि गुदमार्गोपरोधाद् वायुरपानः प्रत्यारोहन् समानोदानप्राणव्यानपित्तश्लेष्मदोषान् प्रकोपयति। एते सर्वे एव कुपिताः पञ्च वायवः पित्तश्लेष्माणौ चार्शसम् अभिद्रवन्तस्तान् विकारान् जनयन्ति। इत्युक्तानि सहजान्यशांसि ॥ ६॥ दिभिः सह वत्तमानः। हृदुपलेप इन्द्रियोपलेपश्च । प्रचुरश्च विबद्धश्च शुक्त इवाम्लचोदारो यस्य सः। दुःखिजनस्येव दुःखोपचारशीलः। कासादिभिः परीतः। तैमिरिको नेत्ररोगविशेषतिमिररोगवान्। क्षामः क्षीणः। क्षामश्च भिन्नश्च संसक्तश्च जज्जरश्च स्वरो यस्य सः। पाणिपादादिषु शूनता शोथः । सर्वाङ्गमईः सव्वपळस्थिशूली च सर्वदेव, अन्तरान्तरा मध्ये मध्ये तु विशेषेण पादिग्रदैरुपतप्तः स्यात्। प्रध्यानपरो निरर्थकचिन्ताशीलः। परमुत्कृष्टोऽलसश्चेति। अस्य जन्मप्रभृति गुदमार्गोपरोधादपानो वायुः प्रत्यारोहन्नूद्ध गच्छन् समानादीन् प्रकोपयति । एते पश्च वायवः पश्चधा पित्तश्लेष्माणौ चेति सर्वत्र कुपिता असं जनमभिद्रवन्त एतानुक्तान् विकारान् जनयन्तीति । इत्युक्तानि लिङ्गतः सहजान्यशसि ॥६॥ न सर्वदा। दुःखोपचारशील इति दुःखोपचारहेतुरित्यर्थः। प्रध्यानं घूर्णनम् । पुनरयं सहजार्शोयुक्त ईदृग्व्याधिपरीतो भवतीत्याह-जन्मेत्यादि। प्रत्यारहन्निति अर्द्ध गच्छन् अनुक्रमेण पञ्चवातप्रकोपो भवति। अत्र सर्वथा वायुर्विगुणो भवति, तेन सर्वत्र वातविकाराः प्रायो भवन्ति। पित्तश्लेष्मप्रकोपाच्च तद्विकारा विभवन्तीति युक्तमेव। अर्शसमिति भर्घायुक्तं पुरुषम् ॥६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy