________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४श अध्यायः] चिकित्सितस्थानम्। २८६१
तत्र सहजान्यशांसि कानिचिदणनि कानिचिन्महान्ति कानिचिदीर्घाणि कानिचिद हवानि कानिचिद् वृत्तानि कानिचिद विषमस्तृतानि कानिचिदन्तःकुटिलानि कानिचिजटिलानि कानिचिदन्तर्मखाणि, तानि यथास्वं दोषानुबन्धवर्णानि ॥५॥ ___ तैरभिभूतो जन्मप्रभृति भवत्यतिकशो विवर्णः क्षामो दीनः प्रचुरविबद्धवातमूत्रपुरीषः शर्कराश्मरीमान् तथानियतविबद्धमुक्तपक्कामशुष्कभिन्नवर्चा अन्तरान्तरा श्वेतपाण्डुरितपोतरक्तारुणद्रवसान्द्रपिच्छिलकुणपगन्धामपुरीषोपवेशी नाभिवस्तिवङ्क्षणोदेशे प्रचुरपरिकर्तिकान्वितः सगुदशूलप्रवाहिकः परिहर्षप्रमेहप्रसक्तविष्टम्भाटोपान्त्रकूजोदावर्त्तहृदिन्द्रियोपलेपः प्रचुरतन्त्रेऽस्मिन् उक्ता। एवं गुदवलिः क्षेत्रं, तत्र मेदो मांसं वक् च सर्वेषामर्शसा. मधिष्ठानं भवतीति स्वस्थानमुक्तमिति ॥४॥
गङ्गाधरः-लिङ्गादौ वक्तव्ये सहनाभेलिङ्गान्याह-तत्रेत्यादि। अनि क्षुद्राणि महान्ति स्थूलानि वृत्तानि वतुलानि। विषमस्तानि विसदृशवक्राणि अन्तःकुटिलानि मध्ये वक्राणि जटिलानि सूक्ष्ममांसप्रतानेर्जटारूपयुक्तानि । यथास्वं दोषानुवन्धवर्णानीति । यद्यपि सर्वाणि त्रिदोषजानि तथाप्युल्वणदोषानुबन्धवर्णानि ॥५॥
गङ्गाधरः-तैरित्यादि। ईदृशैस्तैः सहजैरीभिरभिभूतः पुमान् जन्मावधि अतिकृशो विवर्णश्च भवति । क्षामः क्षीणः । पचरविवद्धवातादिः। शर्करारोगवानश्मरीरोगवांश्च। तथा अनियतं विबद्धं मुक्तं पकमामं शुष्कं भिन्नञ्च वर्ची यस्य सः। एवम्भूतोऽपि अन्तरान्तरा मध्ये मध्ये सश्वेतादि वर्च उपवेशी। नाभ्यादाद्ध देशे प्रचुरपरिकर्त्तिकान्वितः कर्तनवत्प्रचुरपीड़ान्वितः। गुदशूला
चक्रपाणि:-सहजानीत्यादिना संस्थानलिङ्गान्याह। जटिलानीति तृणान्तरितानि । दोषानु. बन्धवर्णानीति दोषानुरूपवर्णानि ॥५॥ चक्रपाणि:-अनियतत्वं विबद्धमुक्तत्वादि विरुद्धधर्माणां ज्ञेयम् । अन्तरान्तरेति कदाधिस्,
३५९
For Private and Personal Use Only