________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३श अध्यायः
चिकित्सितस्थानम् ।
मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिषक् ।
विपाट्यान्त्रं ततः पश्चाद वीक्ष्य बद्धक्षतान्त्रयोः ॥ सर्पिषाभ्यज्य केशादीनवमृज्य विमोक्षयेत् । मूर्च्छनाद यच्च संमृदमन्त्रं तच्चावमोक्षयेत् ॥ ८८ ॥ छिद्रायन्त्रस्य तु स्थूलदंशयित्वा पिपीलिकैः । बहुशः संगृहीतानि ज्ञात्वा छित्त्वा पिपीलिकाः || प्रतियोगः प्रवेश्यान्त्रं प्रयैः सीव्येद् व्रणं ततः । तथा जातोदकं सर्व्वमुदरं व्यधयेद् भिषक् ॥ वामभागे त्वधो नाभेर्नाड़ीं दत्त्वा च गालयेत् ।
विस्राव्य च विमृद्येवं वेष्टयेद् वाससोदरम् ॥ ८६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२८५५
यथा । वामं कुक्षिमुदरं नाभेरधस्ताचतुरङ्गुलं मापयित्वा तन्मात्रायुक्तेन चतुरङ्गुलन शस्त्रेण मतिमान् भिषक पाटयेत् । विपाट्य ततः पश्चादन्त्रं बद्धगुदस्य क्षतान्त्रस्य च वीक्ष्य यत्र केशकण्टकादीनि वर्त्तन्ते, तत्र सर्पिषा अभ्यज्य संस्निह्यामृज्य केशादीन विमोक्षयेत् । यच्चान्त्रं केशादिभिः मृच्छेनादकीभावापादनात् सम्मूढं तदन्त्रमवमोक्षयेद् वहिर्निःसार्य केशादीन् विमोक्षयेत् ॥ ८८ ॥
गङ्गाधरः- छिद्राण्यन्त्रस्येत्यादि । ततः परं तस्यान्त्रस्य तु छिद्राणि बहुशः स्थलः पिपीलिकैर्दशयिखा तैः पिपीलिकैदशनेन संगृहीतान्यन्त्रच्छिद्राणि शाखा ताः पिपीलिकाः शिरोभागादधस्तात् कटीदेशे छित्त्वा प्रतियोगर्यथायोगेनान्त्रं वहिर्निःसारितं तत्प्रतियोगानुरूपयोगः प्रेयैः प्रयाणैरन्तः प्रवेश्य ततश्चतुरङ्गलं तद्वणं प्रेयैः सूच्यः सीव्येत् । इति वद्धगुदच्छिद्रान्त्रयोरुक्तम् ॥ ० ॥ अथ जातोदकस्याह - तथेत्यादि । जातोदकं सर्व्वं वातोदरादिकमुदरं वामभागे नाभेरधस्ताद् भिषक् तथा व्यधयेत् । विडा नाड़ीँ मध्याच्चतुरङ्गलं त्यक्त्वा वामकुक्षौ नाभ्यधस्तात् अर्द्धदलपाटनं कर्त्तव्यम् । पश्चाद् बद्धक्षतोदरयोरन्तरं ater यथोचितक्रियार्थं केशादिमार्जनं कृत्वा संमूदमन्त्र द्राक् मोक्षयेत् ॥ ८८ ॥
चक्रपाणिः - छिद्रान्वस्य तु अन्तं छिद्राणि पिपीलिकैः दंशयित्वा संगृहीतानि यथान्तच्छिद्राणि भवन्ति तथा ज्ञात्वा पिपीलिकाशिरश्छदः कार्य्यः, स्यूतयोरपि बद्धछिद्रान्त्रयोः निःसृतान्सप्रवेशविधिः प्रतियोगेरित्यनेनेोक्तः कर्त्तव्यः । तथेत्यादिना जातोदकविधिमाह । तथा व्यधयेदिति नाभ्यधः