________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८५६
चरक-संहिता। [उदरचिकित्सिनम् तथा वस्तिविरेकाद्य म्लीनं सर्वञ्च वेष्टयेत्। निख ते लछितः पेयामस्नेहलवणां पिबेत् ॥ ६॥ अतः परन्तु षण्मासान् क्षीरवृत्तिर्भवेन्नरः। त्रीन् मासान् पयसा पेयां पिबेत् त्रीश्चापि भोजयेत् ॥ सकोरदूषं श्यामाकं पयसालवणं नरः। संवत्सरेणैव जयेत् प्राप्तञ्चैव जलोदरम् ॥६१ ॥ प्रयोगाणाञ्च सर्वेषामनु क्षीरं प्रयोजयेत् ।
दोषानुबन्धरक्षार्थ बलस्थैर्यार्थमेव च ॥ नलं दत्त्वा जलं गालयेत्। विस्राव्य जलं गालयिखा विमृद्य वाससा तदुदरं वेष्टमेत् । एवं यस्योदरिणो वस्तिविरेकादिभिरुदरं म्लानं भवति तत् सर्वचोदरं वाससा वेष्टयेत् ॥ ८९॥
गङ्गाधरम्-तथेत्यादि। सर्वमुदरिणां वस्तिबिरेकाद्यः म्लानमुदरं वाससा वेष्टयेदाध्माननिवृत्त्यर्थम् । एवंप्रकारेण निस्र तजल उदरी जनो लड्डनं कृखा बुभुक्षितो यदा स्यात् तदा स्नेहलवणवर्जितां पेयां पिबेत् ॥ ८९॥
गङ्गाधरः-अतः परं तदुदरी नरः क्षीरत्तिः षण्मासान् व्याप्य भवेत् । तत्र षट्सु मासेषु मध्ये त्रीन् मासान् नरः पयसा पेयां पिबेत्। त्रीश्च मासान् पयसा लवणहीनमन्नं भोजयेत् । षण्मासात् परं यथात्तिः स्यात् तदाह---सकोरदूषेत्यादि। कोरदूषान्नं श्यामाकान्नं वा लवणवज पयसा भोजयेदित्येवं संवत्सरेणव प्राप्तं जलोदरं जयेत् ॥ ९१॥ .
गङ्गाधरः-प्रयोगाणामित्यादि। सर्वेषामुदररोगहरप्रयोगाणामनु गोः क्षीरं प्रयोजयेत् । किमर्थमित्यत आह-दोषत्यादि। शरीरधारणानां वातादीमा दोषाणामनुबन्धरक्षार्थ बलार्थ स्थैर्यार्थञ्चैव। कस्मात् क्षीरमिति ? चतुरङ्गुले इत्यर्थः। अतः परमिति अलवणपेयापानादूद्ध षण्मासान् क्षीरवृत्तिः स्यात्। ततः क्षीरमालवृत्तिषण्मासादूई बीन् मासान् पयसा सह पेयां पाययेत्। ततश्चोर्द्ध त्रीन् मासान श्यामाकं कोरदूषमित्यादिग्रन्थोक्तं धीरेण भोजयेत् । एवं संवत्सरेण इति यदक्कं तत् पूर्यते ॥ ८९-९१॥
For Private and Personal Use Only