________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८५४
चरक-संहिता। [उदरचिकित्सितम् विषेण हृतदोषं तं शीताम्बुपरिषेचितम् । पाययेत भिषग् दुग्धं यवागू वा यथावलम् ॥ त्रिवृन्मण्डूकपर्योश्च शाकं सयववास्तुकम् । भक्षयेत् कालशाकं वा सुरसोदकसाधितम् ॥ निरम्ललवणस्नेहं खिन्नाखिन्नमनन्नभुक् । मासमेकं ततश्चैव तृषितः सुरसं पिबेत् ॥ एवं विनिहते दोषे शाकैर्मासात् परं ततः। दुर्बलाय प्रयुञ्जीत प्राणभृत् कारभं पयः॥८७॥ इदन्तु शल्यहर्तणां कर्म स्याद् दृष्टकर्मणाम् ।
वामं कुचिं मापयित्वा नाभ्यधश्चतुरङ्गलम् ॥ विषेणाशु भिन्नः सन् प्रवर्तते। अथ तमुदरिणं विषेण हृतदोषं शीताम्बुना परिषेचितं भिषग दुग्धं पाययेत। तथा यथाबलं यवागू मण्डपेयाविलेपीनाम् अन्यतमां पाययेत। तत्र शाककामः त्रिवाशाकं मण्डूकपर्ध्या दन्त्याः शाकं यवस्य शाकं वास्तुकशाकं कालशाकं वा सुरसस्य पर्णासस्य काथसाधितं निरम्ललवणस्नेहमम्ललवणतैलघृतादिस्नेहसंस्कारहीनं खिन्नास्विन्नं स्वल्पविन्न सम्यस्विन्नं वाऽनन्नभुक् पञ्चगुणजलसाध्यं तण्डुलकृतमन्नमोदनं न भुक्त्वा यवागूमात्रं भुञ्जानो मासमेकं भक्षयेत्। ततश्चानन्तरं तृषितः स उदरी सुरसं पर्णाशरसं पिबेत् । एवंप्रकारेण शाकैर्मासाद विनिहते तदुदरदोषे ततः परं दुर्बलाय तस्मै प्राणभृत् बलधृक् कारभं पयः हस्तिनीपयः प्रयुञ्जीत। इति दोषशेषचिकित्सितमुक्तम् ॥ ८७॥ __ गङ्गाधरः-अथ शस्त्रचिकित्सितमाह-इदन्वित्यादि। दृष्टकर्मणां शल्यहर्त णां शस्त्रचिकित्सकानामिदन्तु वक्ष्यमाणमुदररोगे कम्मै स्यात् । तद कारित्वात्। कालशाकमप्रसिद्धम्। स्वरसोदकाभ्यां साधितम्। ततश्चैव स्वरसमिति शाकस्वरसम् ॥ ८७॥
चक्रपाणिः-नाभ्यधश्चतुरङ्गुलमिति नाभेरधो यथा भवति तथा वामकुक्षिं मापथित्वा उदर* स्वरसोदकसाधितम् इति पाठान्तरम् ।
For Private and Personal Use Only