SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८५३ इश अध्यायः] चिकित्सितस्थानम्। अनुज्ञाप्य भिषक् कर्म विदध्यात् संशयं ब्रुवन् । अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ॥ एवमाख्याय तस्येदमनुज्ञातः सुहृद्गणः। पानभोजनसंयुक्तं विषमस्मै प्रयोजयेत् ॥८६॥ यस्मिन् वा कुपितः सो विस्तृजेद्धि फले विषम् । भक्षयेत् तदुदरिणं प्रविचार्य भिषग्वरः॥ तैनास्य दोषसंघातः स्थिरो लोनो विमार्गगः। विषेणाशुप्रमाथित्वादाशु भिन्नः प्रवर्तते ॥ सुहृद्दारापत्यब्राह्मणनृपतिमुरूननुज्ञाप्य संशयं ब्रुवन् कर्म विदध्यात्। कथं संशयं ब्रुवन्ननुशापितः कम्मै विदध्यादित्यत आह–अक्रियायामित्यादि। भो अस्योदरिणो शातिप्रभृतयः! एतस्याहं यथाविधि क्रियां सामकार्ष न च व्याधिनिवृत्तोऽभूदधुना अक्रियायां चिकित्साक्रियाया अकरणेऽस्य उदरिणो ध्र वो मृत्युः स्यात्। या च शेषा क्रियास्य रोगस्यास्ति तस्यां क्रियायामाचर्यमाणायामस्य जीयने संशयो भवेत् । इत्येवं रोगिणो शातिप्रभृतीनाख्याय तैश्चेदनुशायते तदाऽनुज्ञातः सन्निदं वक्ष्यमाणं कर्म तस्य रोगिणः प्रयोजयेत्। किं प्रयोजयेदित्यत आह–पानेत्यादि। अस्मै क्रियातिवृत्तजठरिणे पानभोजनसंयुक्तं सपविष प्रयोजयेत् ॥८६॥ गङ्गाधरः–यस्मिन्नित्यादि। अथवा यस्मिन् कस्मिंश्चित् फले कुपितः सो विषं विसृजेत्, तत् फलमस्मै प्रयोजयेत् । तेन विषप्रयोगेणास्य उदरिणो स्थिरो लीनो विमागे गो दोषसंघात आशुप्रमाथिबाद विषस्य आतोदकस्याप्यत्र क्रियालघुत्वोपदर्शनार्थ, ज्ञात्यादिसम्मतिग्रहणादिना एष विपर्ययः। अनुज्ञात इति अनुमतः विषादिप्रयोगे। यस्मिन्निति फले विषं विसृजेत् तथाफलं प्रयोजयेदिति संबन्धः । विषञ्चाव दंष्ट्राविषमेव ज्ञेयम्। उक्तं हि-"श्रवरोगे दूष्योदरे बद्धगुदे क्षतान्बजे जलोदरे दंष्ट्राविषस्यैव प्रयोगो वै विशोधने" ॥ ४६॥ चक्रपाणिः-स्थिर इत्यवपलः। लीन इति धात्वन्तरगतः। प्रमाथित्वादिति क्षोभ ३५८ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy