________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
१३श अध्यायः]
चिकित्सितस्थानम् ।
२८४६ तेलान्यभ्यङ्गपानार्थ शूलनान्यनिलोदरे। स्तैमित्यारुचिहृल्लासे स्वल्पेऽनौ मद्यपाय च ॥ अरिष्टान् दापयेत् क्षारान् कफस्त्यानस्थिरोदरे। श्लेष्मणो विलयार्थन्तु दोषं वीक्ष्य भिषग्वरः॥७६ ॥ पिप्पली तिन्दुकं हिङ्ग नागरं हस्तिपिप्पलीम् । भल्लातकं शिग्रु फलं त्रिफलां कटुरोहिणीम् ॥ देवदारु हरिद्र द्वे सरलातिविष स्थिराम् । कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य च ॥ दधिसर्विसामज-तैलयुक्तानि दाहयेत् । अन्नादूर्द्धमतः क्षाराद् विड़ालपदकं पिबेत् ॥ मदिरादधिमण्डोष्ण-जलारिष्टसुरासवैः। हृद्रोगं श्वय, प्लीह-गुल्मार्थोजठराणि च । विसूचिकामुदावत्तं वाताष्ठीलाच नाशयेत् ॥७७॥
वीजेभ्यो यानि तैलानि भवन्ति तानि तैलान्यनिलोदरे शूलनानि अभ्यगाथ पानार्थ दद्यात् । स्तमित्येत्यादि। कफस्त्यानस्थिरोदरे यदि स्तमित्यमरुचिः हल्लासः स्वल्पानिश्च वर्त्तते रोगी च मद्यपश्चद्भवति, तदा तस्मा अरिष्टान् क्षारान् श्लेष्मविलयार्थ दापयेत् ॥ ७६॥
गङ्गाधरः-पिप्पलीमित्यादि। पिप्पल्यादीनि पश्चलवणान्तानि चतुविंशतिं द्रव्याणि कुट्टयिता समभागेन दध्यादिभिः पञ्चभिश्च समांशैर्यथा म्रक्षयिखा हण्डिकाभ्यन्तरे स्थापयिखा मुखं रुद्धा दाहयेत्। अधस्तादमिना दग्ध्वा क्षारं प्रकल्प्यातः क्षारात् विड़ालपदकं कर्षमात्रं क्षारमन्नाद्भोजादूद्ध मदिरादिना गोलयिता पिबेत् । हृद्रोगमित्याद्याशीः॥ क्षारः॥ ७७॥
शिलाजत्वनीयात् । शिलाजतुविधानेन इत्यनन्तरोक्तशिलाजतुविधानमेव क्षीराशीत्यनेनोक्तं गृह्यते न रसायनोकं व्यवहितत्वात्। शृङ्गवेरा कशब्देन शुष्का करसः क्वाथ इत्यर्थः ॥ ७५। ७६ ॥
चक्रपाणिः-विदालपदकः कर्षः ॥ ७७ ॥
For Private and Personal Use Only