________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४८
चरक-संहिता। (उदचिकित्सितम् क्षीरानुपानं गोमूत्रणाभयां वा प्रयोजयेत् । सप्ताहं माहिषं मूत्रं क्षीरश्चानन्नभुक् पिबेत् ॥ मासमोष्ट्र पयश्छागं त्रीन् मासान् व्योषसंयुतम् । हरीतकीसहस्र वा क्षीराशी वा शिलाजतु॥ शिलाजतुविधानेन गुगगुलं वा प्रयोजयेत् । शृङ्गवेरा करसः पाने क्षीरसमो हितः ॥ ७५ ॥ तैलं रसेन तेनव सिद्धं दशगुणेन वा। दन्तीद्रवन्तीफलजं तैलं दृष्योदरे हितम् ॥ शूलानाहविबन्धेषु मस्तुयूषरसादिभिः।
सरलामधुशिग्र णां वीजेभ्यो मूलकस्य च ॥ गङ्गाधरः-क्षीरानुपानमित्यादि । गोमूत्रेणाभयां प्रयोजयेत् क्षीरश्चानु पिबेत् । अथवानन्नभुक् अन्नभोजनं विहाय माहिषं मूत्रं सप्ताहं पिबेत् क्षीरश्च पिबत् माहिषमेव । मांसमित्यादि। औष्ट पयो व्योषसंयुतं मासं पिबेत्,व्योषसंयुतं छागं वा पयस्त्रीन् मासान् पिबेत् । क्षीरानाशी हरीतकीसहस्र वापि प्रयोजयेदेकैको प्रतिदिनं वर्द्धयिता दशहरीतकी यावत् पीखा ततः प्रतिदिन दश दश हरीतकीमैक्षयिता शेषे क्रमेणैकशो हासयिखा भक्षयेदेवं सहस्र यथा स्यात् तथा प्रयोजयेत् । एवं शिलाजतु च प्रयोजयेत् । द्विरक्तिकादिक्रमेण वर्द्धयिखा दशरक्तिकं यावद् वर्द्धयेत्। ततः प्रतिदिनं दशदशरक्तिकं शिलाजतु प्रयोजयेत् । दोषशेष यावनिवर्तयेत् । शिलाजतुविधानेनेत्यादि। शिलाजतुविधानेन गुग्गुलु वा प्रयोजयेत्। क्षीरसम आईकरसः पाने उदरिणे हितः॥ ७५॥
गङ्गाधरः-तैलमित्यादि। तेनैवाईकशृङ्गवेररसेन दशगुणेन सिद्धमकल्लं तलं वा हितम् । दन्तीद्रवन्त्योः फलज तैलं दृष्योदरे शर्कराकण्टककेशलोमादिभिर्भक्तसहितभुक्तर्जाते उदरे हितम् । तत्र शूलादिकं यदि भवति तदा मस्तुयषरसादिभिः सह पानतो हितं भवति । सरलेत्यादि। मधुशिग्र रक्तशोभाञ्जनः। सरलाया वीजेभ्यो रक्तशोभाञ्जनवीजेभ्यो मूलकस्य च
चक्रपाणिः-अननभुगिति गोमूखणत्यादियोगलये योज्यम्। श्रीराशीति क्षीरमनु
For Private and Personal Use Only