________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्यायः चिकित्सितस्थानम् ।
२८४७ पोलुल्कोपसिद्धं वा घृतमानाहभेदनम् । गुल्मघ्नं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत्। क्रमान्निह तदोषाणां जाङ्गलप्रतिभोजनम् ॥७२॥ दोषशेषनिवृत्त्यर्थं योगान् वक्ष्याम्यतः परम् । चित्रकामरदारुभ्यां कल्कं क्षीरेण ना पिबेत् ॥७३॥ मांसयुक्तं तथा हस्ति-पिप्पलीविश्वभेषजम् । विडङ्ग चित्रकं दन्ती चव्यं व्योषश्च तैः पयः॥ कल्क कोलसमः पीत्वा प्रवृद्धमुदरं जयेत् । पिबेत् कषायं त्रिफला-दन्तीरोहीतकैः शृतम् ॥ व्योषक्षारयुतं जोणे रसैरद्यात् तु जालैः।। मांसं वा भोजनं योज्यं स्नुकक्षीरघृतसंयुतम् ॥ ७४ ॥ गङ्गाधरः-पीलकल्केत्यादि। उदरिणामानाहभेदनं पीलुकल्कोपसिद्धं वा घृतं पिबेत्। गुल्मघ्नं यन्नीलिनीसर्पिरुक्तं नीलिनी त्रिफलां रास्ना. मित्यादिना, त्रितां त्रिफलां दन्ती मित्यादिना चोक्तं गुल्मघ्नं मिश्रकस्नेह पिबेत् । एवं क्रमान्निर्ह तदोषाणां जाङ्गलरसेन प्रतिभोजनम् ॥७२॥
गङ्गाधरः-दोषशेषेत्यादि। दोषशेषनिवृत्त्यर्थं संशमनान् योगानतः परं वक्ष्यामि। चित्रकेत्यादि। चित्रकमूलखक देवदारु च कल्कीकृत्य पयसा उदरी ना नरः पिबेत् ॥७३॥ · गङ्गाधरः-मांसयुक्तमित्यादि। मांसादीनि प्रत्येकं समानि कोलममाणानि गृहीला पिष्टा कल्कीकृतैस्तैः पयः साधयिखा पिबेत्। तत् पीखा प्ररद्धमुदरं जयेत्। पिवेदित्यादि । त्रिफलादीनां भृतं कषायं व्योषचूर्ण यवक्षारश्च प्रक्षिप्य पिवेत्। जीणे कषाये जाङ्गलमांसरसैरद्यात्। मांसं वेत्यादि। स्नुक्क्षीरघृताभ्यां साधितं मांसं भोजनं योज्यम् ॥ ७४॥
चक्रपाणिः-गुल्मन्नमिति गुल्महरत्वेनोक्तं गुल्माध्याये। मिश्रकस्नेहः गुल्मोक्त एव ॥७२॥
चक्रपाणिः-चित्रकेत्यादौ मांसयुक्तमिति छेदः। तथा हस्तिपित्पल्यादाविति क्षीरेण पिबेदिति संबध्यते। विडङ्गादिभिः क्षीरम् अष्टपलं चतुर्गुणजलेन साधनीयम् । पिबेत् कषायमित्यादौ व्योषक्षारयोः प्रक्षेप्यत्वम् । मांसं वेत्यादौ तु सुधाक्षीरसाधितं धृतं पूर्वोक्तं ज्ञेयम् ॥ ७३ । ७४ ॥
For Private and Personal Use Only