________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri
२८४६
चरक-संहिता। [उदरचिकित्सितम् दधिमण्डाढ़के सिद्धात् स्नुकतीरपलकल्कितात् । घृतप्रस्थात् पिबेन्मात्रां तद्वजठरशान्तये ॥ एषाश्चानुपिबेदेव पयो वा स्वादु वा रसम् । घृते जीणे विरिक्तश्च कोष्ण नागरकैः शृतम् ॥ पिबेदम्बु ततः पेयां यूषं कौलत्थकं ततः। पिबेद रुक्षस्त्रान्त्वेवं पयोऽन्नं ७ प्रतिभोजितः ॥ पुनःपुनः पिबेत् सर्पिरानुपूर्ध्या तथैव च। घृतान्येतानि सिद्धानि विदध्यात् कुशलो भिषक् ।
गुल्मानां गरदोषाणामुदराणाञ्च शान्तये ॥ ७१ ॥ पिबेत् । दधीत्यादि। घृतप्रस्थं दधिमण्डाढ़के षोड़शशरावे स्नुक्क्षीरपलं कल्कं दत्त्वा तु पचेत् । तस्मात् सिद्धाद घृतान्मात्रां पिबेत्। एषामित्यादि। एषां क्षीरद्रोणमित्यादुरलानां घृतानां पानादनु स्वादु पयो वा पिबेदथवा मांसरसं पिबेत् । घृते पीते जीणे सति विरिक्त उदरी नागरैः शृतं कोष्णमम्बु पिबेत् । ततः परं पेयां कौलत्थक यूपश्च पिबेत् । ततो रुक्ष उदरी एवंप्रकारेण पयोजन प्रतिभोजितः संजातबलस्तथैव पूर्वोक्तयानुपूटा पुनःपुनः सर्पिः पिबेत् । क्षीरद्रोणमित्यादाक्तमेव सपिः। एतानि घृतानि गुल्मादीनां शान्तये विदध्यात् ॥७१॥ पाकः किंवा प्रकृतदधिमथितेन घृतेनैव । तथेत्यादिना षटपलेन चेत्यन्तेन द्वितीयं घृतम् । तथेति पूज्वप्रकारोत्थितं घृतमेव। एवम् उत्तरे घृते ततच्छब्दार्थ वर्णयान्त। पेयादीनां त्रयाणाम् अन्नानुपानत्वं कफपित्ते । किंवा प्रकृत्यग्न्यपेक्षयानुपानभेदः कल्पनीयः। नागरकैः शृतमित्यत्र षडङ्गविधिना जलसाधनम्। द्वितीये दिवसे पेयां, यूषं कौलस्थिकं तत इति तृतीये दिवसे, अक्तं हि प्रथमे नागरयूषं, परेऽहनि पेया, तृतीये कुलत्थौदनमिति । रुक्ष इति पुनःपुनः पिबेदित्यनेन संबध्यते। तेन रुक्षस्य एतत्स्नेहविरेचनं कर्त्तव्यम्। यत् तु स्नेहविरेचनमित्यत्र स्निग्धो नाधिकारीति दर्शयति । इदमेव नागरादिशृतपानीयादिना उपपादितं तथा बलापेक्षया भूयो वा प्रतिभोजित इति अधिकानि वा दिनानि माया भोजितः सन् पुनःपुनः पिबेदिति योज्यम् ॥ ७॥
* पयोऽन्नमित्यत्र पयो धा इति चक्रः ।
For Private and Personal Use Only