SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३श अध्यायः ] चिकित्सितस्थानम् । सैन्धवं काललवणं पिप्पलीञ्चेति चूर्णयेत् । दाड़िम त्रिफलामांस- रसमूत्रसुखोदकैः ॥ पेयोऽयं सर्व्वगुल्मेषु लोहि सव्र्वोदरेषु च । श्वित्रे कुष्ठे सरुजके सवाते विषमाग्निषु ॥ शोथाः पाण्डुरोगेषु कामलायां हलीमके । वातपित्तकफांश्चाशुविरेकात् संप्रसाधयेत् ॥ ६६ ॥ हषा चूर्णम् । नोलिनोच्छल्लकं व्योषं द्वौ चारौ लवणानि च । चित्रकञ्च पिबेच्चूर्ण सर्पिषोदरगुल्मनुत् ॥ ७० ॥ नीलिन्याद्यौं चूर्णम् । २८४५ नीरद्रोण सुधाचोर-प्रस्थार्द्ध माहिषं दधि । जातं मथित्वातो मात्रां त्रिवृत्सिद्धात् पिवेद घृतात् ॥ तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत् । स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन च ॥ स्वर्णक्षीरी ब्राह्मीति । अत्रापि शातला चम्पेकषा | काललवणं विलवणविशेषः । सर्व्वं समभागेन वर्णयेत् । दाड़िमरसेन मिलितत्रिफलारसेन मांसरसेन गोमूत्रेण सुखोदकेन वा अयं चर्णः पेयः । हनुषा चूर्णम् ॥ ६९ ॥ गङ्गाधरः- नीलिनीच्छकमित्यादि । नीलिन्याछलकं वल्कलम् । लवणानि पञ्च । नीलिन्याय चूर्णम् ॥ ७० ॥ गङ्गाधरः - क्षीरद्रोणमित्यादि । सुधाक्षीरं स्नुहीक्षीरं तस्य प्रस्थार्द्ध शरावद्वयं माहिषं क्षीरद्रोणं जातं दघि मथित्वा समुद्धृतं घृतं पुनस्त्रिता कल्केन पादेन चतुगु णजले सिद्धं पक' स्थाप्यं, तस्माद् घृतान्मात्रां बुद्धा पिवेत् । तथा घृतप्रस्थमष्टगुणे पयसि स्नुकक्षीरपलकल्केन पट्पलत्रिवृताकल्केन पादिकेन सिद्ध For Private and Personal Use Only चक्रपाणिः - हपुषेत्यादौ काललवणं बिड़लवणमेव, अन्ये तु सौवच्चैलाकारं लवणमाहुः । दाड़िमादिभिरिति शब्दः संबध्यते ॥ ६९ ॥ ७० ॥ चक्रपाणिः - क्षीरद्रोणमित्यादयक्तानि घृतानि तुल्यकर्माणि, तत्र च प्रथमे घृते द्रवानुके जलेनैव ३५७
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy