________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४४
चरक-संहिता। [ उदरचिकित्सितम् विडङ्गश्च समांशानि दन्त्या भागत्रयं तथा। त्रिवृदिशाले द्विगुणे शातला स्याञ्चतुर्गणा ॥ एष नारायणो नाम चूर्णो रोगगणापहः । नैनं प्राप्यातिवर्त्तन्ते रोगा विष्णुमिवासुराः॥ तक्रणोदरिभिः पेयो गुल्मिभिर्बदराम्बुणा । आनद्धवाते सुरया वातरोगे प्रसन्नया ।। दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरशसः। परिकर्ते सवृक्षाम्ल उष्णाम्बुभिरजीर्णके ॥ भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रह। हृद्रोगे ग्रहणीरोगे कुष्ठे मन्देऽनले ज्वरे ॥ दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे। यथाहं स्निग्धकोष्ठेन पेयमेतद् विरेचनम् ॥१८॥
नारायणं चूर्णम्। हवुषां काञ्चनक्षीरी त्रिफलां कटुरोहिणीम्। नीलिनीं त्रायमाणाञ्च शातलां त्रिवृतां वचाम् ॥
कुष्ठं पुनर्व्याधिनाम कुष्ठमेव । सैन्धवादीनि पञ्च लवणानि । विडाश्च । इत्येतदेकोन त्रिंशत् द्रव्यं प्रत्येकं समानम्। एकभागापेक्षया त्रिभागं दन्त्या मूलबचः। त्रिच्चर्ण द्विगुणं विशालमूलश्च द्विगुणमेकभागापेक्षया। शातला चम्मकषा, एकभागपेक्षया चतुगुणा। सर्च चीकृत्य मिश्रयिखा स्थापयेत् । नारायणं चर्णम् ॥ ६८॥
गङ्गाधरः- हवुषामित्यादि। हवुषा आउच इति ख्यातम्। काञ्चनक्षीरी
महाजीरकम् । अजमोदा अजगन्धा । दन्त्या भागास्त्रयः गृहीतभागापेक्षया । एवं विवृद्धिशालयोरपि आद्यभागापेक्षया प्रत्येकं द्वैगुण्यम् । नारायणसंज्ञानिमित्तमाह-नैतमित्यादि। एतेन नारायणसर्मित्वात् नारायणसंज्ञेत्युक्तं भवति ॥ ६८ ॥
For Private and Personal Use Only