________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८५० चरक-संहिता।
[ उदरचिकित्सितम् क्षारश्चाजकरीषाणां शृतं मूत्रेण साधयेत्। कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च ॥ पिप्पली चित्रकं शुण्ठी त्रिफलां त्रिवृतां वचाम् । द्वौ क्षारौ शातला दन्तीं स्वर्णक्षीरी विषाणिकाम् ॥ कोलप्रमाणां गुड़िकां पिबेत् सौवीरसंयुताम् । श्वयथावविपाके च प्रवृद्ध च दकोदरे॥७८ ॥ भावितानां गवां मूत्रैः षष्टिकानाञ्च तण्डुलैः। यवागू पयसा सिद्धां प्रकामं भोजयेन्नरम् ॥ पिबेदिक्षुरसञ्चाथ जठराणां निवृत्तये। खखस्थानं व्रजन्त्येवं तथा पित्तकफानिलाः। प्रकोपप्रशमं यान्ति उपक्रान्ता भिषग्वरैः॥७६ ॥
गङ्गाधरः-क्षारञ्चेत्यादि । आजकरीषाणां छागलस्य शुष्कपुरीषगुड़कानां दग्धानां क्षारं मूत्रेण षड़ गुणेन अष्टगुणेन वा पक्वार्द्धशेष भृतं गालयिखा पुनः साधयेत् पचेत् । लेहवद्भावे (अवतारयेत्, तस्य कर्षमन्नादूर्द्ध मदिरादिभिः पिबेत् । कार्षिकमित्यादि।) पिप्पलीमूलादीनां विंशतेद्रव्याणां चूर्ण प्रत्येकं प्रक्षिप्य घनीभूतमवतारयेत् । तस्य क्षारस्य कोलप्रमाणां गुड़िकामेकां सौवीराम्लेन युतां पिबेत्। अत्र क्षारप्राधान्यादान करीषक्षारं सर्चद्रव्यसमं विंशतिकाषिक ग्राह्यमिति। श्वयथावित्याद्याशीः। आजक्षारः॥७८॥
गङ्गाधरः-भावितानामित्यादि। गवां मूत्रैः सप्तधा भावितानां षष्टिकानां धान्यानां तण्डुलैः पयसा सिद्धां यवागू माडं पेयां विलेपी वा जठराणां सर्वेषां निवृत्तये प्रकामं यथाकाक्षं भोजयेन्नरमुदरिणम्। अथानुभोजनात् पश्चात् स इक्षरसश्च पिबेत् । एतस्याशीः स्वस्वेत्यादि, तथा तेन प्रकारेण पयः सिद्धयवागूरूपपायसभोजनेन ॥ ७९ ॥
चक्रपाणिः-क्षारञ्चाजकरीषाणामित्यादौ क्षारान् पड़ द्रवेण एकविंशतिवारसावणेम क्षारद्रवं ग्राह्यम् । यावच्चूर्णसमुदायद्रवत्वेन कृतद्वैगुण्यं सदृष्टगुणं भवति ॥ ७८ ॥ ७९ ॥
For Private and Personal Use Only