________________
Shri Mahavir Jain Aradhana Kendra
२८४०
www.kobatirth.org
चरक संहिता |
वृश्चिकालीं वचां कुष्ठं पञ्चमूलीं पुनर्नवाम् । वर्षाभू नागरं धान्यं जले पक्त्वा च सेचयेत् ॥ पलाशं कत्तणं रास्नां तद्वत् पक्त्वा च सेचयेत् । मूत्रांगयष्टावुदरियां सेके पाने च योजयेत् ॥ ५६ ॥ रुक्षाणां बहुवातानां तथा संशोधनार्थिनाम् । दीपनीयानि + सर्पषि जठरम्नानि वच्यते ॥ ६० ॥ पिप्पलीपिप्पलीमूल-चव्यचित्रकनागरः । सारैरर्द्धपलिकेंद्रिप्रस्थं सर्पिषः पचेत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ उदरचिकित्सितम्
गङ्गाधरः- वृवीकालीमित्यादि । वृश्चिकाल्यादीनि द्वादश जल काथविधिना पत्वा उदरं सेचयेत् । पञ्चमूली विल्वादिः । पलाशमित्यादि । कत्तूर्णं गन्धतृणम् । मूत्राणीत्यादि । अष्टौ मूत्राप्युदरिणां सेके पाने च प्रयोजयेत् ॥ ५९ ॥
गङ्गाधरः- रुक्षाणामित्यादि । उदरिणां रुक्षाणामित्यादीनाम् । जठरम्नानि उदरघ्नानि ॥ ६० ॥
गङ्गाधरः - पिप्पलीत्यादि । सर्पिषो द्विप्रस्थमष्टशरावं कृतद्वैगुण्यं पिप्पल्या
*
चक्रपाणिः - उत्क्काध्येति जले पक्तवा । अवसे वयेदित्यस उदरमित्यनुवर्त्तते ॥ ५९ ॥
चक्रपाणिः - स्नेहनीयानीत्यत्र केचिद् दीपनीयानीति पठन्ति ॥ ६० ॥
चक्रपाणिः - पिप्पलीत्यादौ सक्षीरैरर्द्धपलिकै द्विप्रस्थं सर्पिषः पचेदिति पाठे द्विशब्दः प्रस्थेम तथापलिकै रित्यनेन च योग्यः । एतेन पिप्पल्यादीनां द्विरिति द्विगुणाईपलैः षट् पलानि भवन्ति । प्रस्थेन च द्विशब्दयोजनाद घृतप्रस्थद्वयं भवति । काश्मीरे तु पलिकैः पिप्पली क्षारैः द्विप्रस्थं
पतवा च सेचयेदिश्यत पतत्वावसेचयेदिति तथा तद्वत् पत्तत्रेत्यत्र तदुत्काथ्य इति चक्रः । + दीपनीयानीत्यत्र स्नेहनीयानि इति चक्रः ।
For Private and Personal Use Only