________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्यायः ]
चिकित्सितस्थानम् ।
कल्केर्द्वि पञ्चमूल्यास्तु तुलार्द्धखरसेन च । दधिमण्डाढ़ कोपेतं तत् सर्पिर्जठरापहम् । श्वयथुं वातविष्टम्भं गुल्मानशसि नाशयेत् ॥ ६१ ॥ पञ्चकोलघृतम् ।
२८४१
नागरं त्रिफला प्रस्थं घृतं तैलं तथादकम् । मस्तुनः साधयित्वा तु तं पिबेदुदरापहम् । कफमारुतसम्भूतै गुल्मे चैव प्रशस्यते + ॥ ६२ ॥ नागरघृतम् ।
चतुर्गणे जले मूत्रे द्विगुणे चित्रकात् पले । कल्के सिद्धं घृतप्रस्थं सचारं जठरी पिबेत् ॥ ६३ ॥ चित्रकघृतम् ।
दिभिः कल्कः प्रत्येकमर्द्ध पलिकैः षभिः । द्विपञ्चमूल्या दशमूल्यास्तुलाद्धस्वरसेन मिलित्वा दशमूल्यास्तुलार्द्ध काथार्थं जलं द्वात्रिंशच्छरावं शेषमष्टशरावं दधिमण्डस्य मस्तुन आढकं षोड़शशरावमिति त्रिगुणद्रवेण पाकः । पञ्चकोलकघृतम् ॥ ६१ ॥
गङ्गाधरः - नागरमित्यादि । प्रस्थं घृतं तैलञ्च मिलिला चतुःशरावं नागरं त्रिफला च मिलिखाष्ट पलानि प्रत्येकं द्विपलमित्यष्टपलैः कल्कैर्मस्तुन आढ़कं षोड़शशराव मैकध्यं साधयित्वा पश्चात् पिवेत् । नागराद्यं घृतम् ॥ ६२ ॥
गङ्गाधरः- चतुर्गुण इत्यादि । घृतं प्रस्थं चित्रकमूलात् पलं सक्षारमिति यवक्षारस्य च पलं गर्भे दत्त्वा घृताच्चतुर्गुणे जले द्विगुणे गोमूत्रे सिद्धं पक जठरी रुक्षबहुवातादिमान् पिबेत् । चित्रकघृतम् ॥ ६३ ॥
सर्पिषः पचेदित्येव पठ्यते । जतूकर्णोऽप्याह "दशमूलतुलार्द्धरसे सक्षारैः पञ्चकोलकैः सार्द्धम् । घृतार्द्धप्रस्थं दधिमस्तुक्रमुदरनम्” इति ॥ ६१ ॥
चक्रपाणिः- चतुर्गुण इत्यादौ सक्षारमित्यनेन यवक्षारस्यापि चित्रकवत् पलं देयम् । उक्त झन्यल - " अग्निक्षारपलाभ्यां हि मूत्रं चतुर्गुणं घृतप्रस्थम्” इति ॥ ६२ ॥ ६३ ॥
For Private and Personal Use Only
*
इतः परं “पञ्चकोलघृतन्त्वेतत् कृष्णात्रेयेण भाषितम्" इत्यधिकः पाठः क्वचित् । 1 नागराथ घृतमिदमात्रेयेण प्रपूजितम्" इति क्वचिदधिकः पाठः ।