SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३श अध्यायः चिकित्सितस्थानम् । २८३६ यमानीसैन्धवाजाजी-व्योषयुक्तं कफोदरी। पिबेन्मधुयुतं तक व्यक्ताम्लं नातिपेलवम् ॥ मधुतैलवचाशुण्ठी-शताबाकुष्ठसैन्धवैः । युक्तं लोहोदरी जातं सव्योषन्तूदकोदरी ॥ बद्धोदरी तु हवुषा-यमान्यजाजिसैन्धवैः । पिबेच्छिद्रोदरी तक्र पिप्पलीक्षौद्रसंयुतम् ॥ गौरवारोचकार्त्तानां समन्दाग्नातिसारिणाम् । तक्रवातकफा नाममृतत्वाय कल्पते ॥ ५६ ॥ शोफानाहार्तितृणमूर्छा-पीड़िते कारभं पयः । शुद्धानां चामदेहानां गव्यं छागं समाहिषम् ॥ ५७॥ देवदारुपलाशार्क-हस्तिपिप्पलिशिग्रु कैः। साश्वगन्धैः सगोमूत्रः प्रदिह्यादुदरं समैः॥ ५८॥ पित्तोदरी पिबेत्। यमानीत्यादि। यमान्यादियुक्तं व्यक्ताम्लं तक्रं नातिपेलवं नातिविरलं मधुयुतं कफोदरी पिबेत्। मधुतैलेत्यादि। प्लीहयकृदुदरी मधुतैलादियुक्तं तत्रं पिबेत्। सव्योषं दुग्धं दधिरूपेण जातं पादजलमुद्धतसारं तक्रमुदकोदरी पिवेत्। बद्धोदरीत्यादि। हवुषादिभिः युक्तं तक्रं बद्धोदरी पिबेत्। पिप्पलीक्षौद्रयुक्तं तकं छिद्रोदरी पिबेत् । गौरवेत्यादि। प्रकरणादुदरिणामित्याहुः अन्ये सर्वस्मिन् व्याधावेव गौरवादिमतां वातकफार्तानां तक्रममृतवाय कल्पते ॥५६॥ __ गङ्गाधरः-शोफेत्यादि। कारभं करिणीनां नव्यानां पयः। एतदुदरिणामेव शोफादिमतां शुद्धानां क्षामदेहानामुदरिणां गव्यं छागं माहिपञ्च पयोऽमृतलाय कल्पते। इति द्रवमात्रवजनेऽपवादवचनं पानविषये ॥५७॥ गङ्गाधरः-देवदार्वित्यादि। देवदारुकाष्ठं पलाशार्क शिग्र णां लक् प्रत्येकं समैर्गोमूत्रपिष्टैरुदरं सर्व प्रदिह्यात् ॥५८॥ चक्रपाणि:-अषेलवमित्यत्र उद्धृतस्नेहम् । स्वाद्विति सद्यो मथितं मधुरं जातम् ॥ ५६-५८ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy