SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८३८ चरक-संहिता। उदरचिकि सितम् यवागूमोदनं वापि यूरैरद्याद रसैरपि । मन्दाम्लस्नेहकटुभिः पञ्चमूलोपसाधितैः ॥ ५४॥ औदकानूपजं मांसं शाकं पिष्टकृतांस्तिलान् । व्यायामाध्वदिवास्वप्न-यानं पानञ्च वर्जयेत् ॥ तथोष्णलवणाम्लानि छ विदाहीनि गुरूणि च। नाद्यादन्नानि जठरी तोयपानश्च वर्जयेत् ॥ ५५ ॥ नातिसान्द्र हितं पाने स्वादु तक्रमपेलवम् । त्रूषणक्षारलवणयुक्तन्तु निचयोदरे॥ वातोदरी पिबेत् तक्र पिप्पलीलवणान्वितम् । शर्करामधुकोपेतं स्वादु पित्तोदरी पिबेत् ॥ कृतान्नान्याह--यवागूमित्यादि। रक्तशालीनां तण्डुलान् यवागमग्निबलमवेक्ष्य मण्डपेयाविलेपीनामन्यतमामोदनञ्च मन्दाम्लस्नेहकटुभिः पञ्चमूलकाथोपसाधितैरल्पाम्लकटुद्रव्यसंस्कृतैमुद्यपैरद्यात्, मृगद्विजानां मांसरसः अप्यद्यात्, तथासाधितैरेव न तु केवलय रसैर्वाद्यात् ॥५४॥ गङ्गाधरः-सर्वेषामुदरिणां वान्याह-औदकेत्यादि। औदकं मांसं मत्स्यादि आनूपनं मांसं वराहादि शाकं पत्रशाकं पिष्टकृतांस्तिलान् तिलान् पिष्ट्वा वटकादीन् पानं द्रवद्रव्यपानमिति वय॑मुक्तम्। परश्चाह-तथेत्यादि। उष्णद्रव्यं स्पर्शतः। लवणचाम्लञ्च। पानवर्जनेन तोयपानवज्जेने लब्धे विशेषेण तोयपानञ्च वर्जयेत् ।। ५५॥ गङ्गाधरः-तर्हि किं पातव्यमित्यत आह–नातीत्यादि। सबोंदरिणां पाने नातिसान्द्रं नातिघभमपेलवमविरलं तर्क हितम्। तच्च यत्र यथा हितं तदाह-ऋषणक्षारलवणैर्युक्तन्तु तत् तक्रं निचयोदरे सन्निपातोदरे हितम् । वातोदरी पिप्पलीलवणान्वितं तक्रं पिबेत्। शर्करायष्टिमधुचूर्णोपेतं तर्क चक्रपाणिः-भोज्यानि अन्नानि, पुनर्भोज्यानीति भोक्तव्यानि । मन्दाम्लेत्यादौ मन्दशब्दोऽल्पवचनः ॥ ५४॥ चक्रपाणिः-यानयानमित्यश्वादिना यानम्। कवोष्णमिति ईषदुष्णम् ॥ ५५ ॥ * तथोष्णलवणाम्लानि इत्यत्र कवोष्ण लघणाम्लानि इति चक्रेण पठ्यते। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy