________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद २
२२६० ... चरक-संहिता।
भवति चात्र। . वृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियञ्चातिबलेन्द्रियश्च ।
अदृश्य-8-मन्यैरतिकान्तरूपं प्रशस्तपूजासुखचित्तताभाक्॥
बलं महद वर्णविशुद्धिरना स्वरो घनौघस्तनितानुकारी। ___ भवत्यपत्यं विपुलं स्थिरञ्च समन्नतो योगमिमं नरस्य ॥५॥
इत्यामलकघृतम्। आमलकसहस्र पिप्पलीसहस्रसम्प्रयुक्तं पलाशतरुभस्मनः+ क्षारोदकोत्तरं तिष्ठेत् । तदनुगतनारोदकमनातपशुष्कमनस्थि चूर्णाकृतं चतुर्गुणाभ्यां मधुसर्पिभ्यां संनीय शर्कराचूर्णचतुर्भागसंप्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः। तस्य अप्रतिहतगतिः स्त्रीष्वित्यन्वयः। गिरिसारसारं लोहवत्त्वगादिसारम्। अन्यैः अदृश्यम् ॥३-५॥ - गङ्गाधरः-प्रयोगान्तरमाह-आमलकेत्यादि। आमलकानां यथोक्तगुणानां मुभूमिजानां गुड़कसहस्र पिप्पलीगुड़कसहस्रण संप्रयुक्तं पलाशतरोः सवल्कलकाष्ठं दग्धा कृतस्य भस्मनः क्षारोदकोत्तरं पड़गुणे वा चतुगणे वा जले तद्भस्म गोलयिखा वस्त्रेणेकविंशतिवारं परिस्राव्य गृहीतमुदकमुत्तरं तदामलकपिप्पलीपरिप्लावनयोग्योन्मितं यत्र तत् तथा, तेन क्षारोदकेनाप्लाव्य तिष्ठेत् स्थापयेत् । अनुगतक्षारोदकं तदामलकसहस्र पिप्पलीसहस्रयुक्तम् अनातपशुष्कं छायायां शुष्कीकृत्य अनस्थि आमलकसहस्रमस्थिहीनं कृता पिप्पलीसहस्रसहितमेव चीकृतं मिलिखा चतुर्गुणाभ्यां मधुसर्पिभ्यां संनीय मिश्रीकृत्य शर्करायाश्चर्णस्यामलकपिप्पलीसहस्रयोश्चर्णस्य चतुर्भागेकभागोन्मानेन संप्रयुक्तं घृतभाजनस्थं कृखा षष्मासान् अन्तभूमेभूमौ गर्त कला सौवर्णादिपात्रेषु यथापूर्व वरगुणत्वम्, अन्यथा समानगुणस्वे सर्वेषां मृत्पात्रस्य सुलभत्वे अतिदुर्लभं सौवर्णपात्रं नोपदिशेदिति । यथोक्तेन विधिनेति कुटीप्रावेशिकेन । गिरिसारो लौहम् ॥ ४५ ॥
चक्रपाणिः-पलाशतरुणस्तरुणपलाशः । अनेन बालवृद्धपलाशवर्जनमुच्यते। दारोदकोत्तरमिति * अदृष्यमिति वा पाठः।
+ पलाशतरुणक्षारोदकोत्तरमिति चक्रष्टतः पाठः ।
For Private and Personal Use Only