________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
चिकित्सितस्थानम्। २२८६ पाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसंप्रयुक्त सौवणे राजते मार्तिके वा शुचौ दृढ़ घृतभाविते कुम्भे स्थापयेत् । तद् यथोक्तन विधिना यथाग्नि प्रातःप्रातः प्रयोजयेत्। जीणे च क्षोरसर्षिा शालिषष्टिकमश्नीयात् । अस्य ® प्रयोगावर्षशतं वयोऽजरं तिष्ठति श्रुतमवतिष्ठते सर्वामयाः प्रशाम्यन्त्यप्रतिहतगतिश्च स्त्रीष्वपत्यवान् भवति ॥३॥ ४ ॥
चतुर्गणम्” इति वचनेन मिलितयोयोः सर्पिश्चतुर्गुणमानलाभात् । वचनेन ह्यनेन खलु पञ्चप्रभृतिद्रवाणां प्रत्येक स्नेहसमानत्वम् अाक् पञ्चद्रवाचतुर्द्रवं वा त्रिद्रवं वा द्विद्रवं वाप्येकद्रवं वा यदि स्यात् तदा मिलिखा चतुर्गुणं ग्राह्यमिति परिभाषितम्। तथैवोक्तमन्यत्र। “एकेनापि चातुर्गुण्यं द्वाभ्यामपि चातुर्गुण्यं त्रिभिरपि चातुर्गुष्यं चतुर्भिः समम्” इति। प्रत्येकं तेन च फलितं मिलिखा चतुर्गुणमिति न विरोध इति। अत एवान्ये चतुःप्रभृतीति पठन्ति। तस्मादत्र पयसो बलातिबलाकपाययोविशेषोक्तिश्चतुर्गुणेनेति। एतेनानयोमिलिखा चातुर्गुण्यं नाशयम्। एवं त्रिपाकं घृतं शर्करां मधु च मिलिखा घृतपादिकं प्रक्षिप्य तत्र मिश्रीकृतं सौवर्णादिकुम्भे स्थापयेत् । इति त्रिधापाकेनैको योगः। एषु चैककम् एकैकशोऽपि प्रथमपाकविधानेनैव शतपाक, द्वितीयपाकविधिना च शतपार्क, तृतीयपाकविधिना च शतपाकं, शतधा पाको यस्य तत् तथाविधं घृतं शर्कराक्षौद्रयोस्तघृताचतुर्थभागेकभागसंप्रयुक्तं सौवर्णादिकुम्भे घृतभाविते दृढ़े शुचौ स्थापयेत् इति त्रयो योगाः। अथवानेनैव क्रमेण प्रथमपाकविधिना सहस्रपाक द्वितीयपाकविधानेन सहस्रपाकं तृतीयपाकविधानेन वा सहस्रपाकं घृतं शर्कराक्षौद्रचतुर्थभागसंपयुक्तं सौवर्णादिकुम्भे घृतभाविते स्थापयेत् इति त्रयो योगाः। तद् घृतं यथोक्तविधिना कुटीं प्रविष्टः शुद्धतनुर्यथाग्निवलं प्रातःप्रातः प्रयोजयेत् ।
चक्रपाणिः-एकैकशः शतपाकमित्यर्थः । एकैकपाकसाधनं पृथक् कर्त्तव्यम्, तेन विशतधा पाको भवति। अत्र च कल्कोपलेपादिनोपक्षीणमपि यदवशिष्टं भवति, तदेव ग्राह्य वचनबलात् ।
* तिवर्षप्रयोगात् इति चक्रः ।
For Private and Personal Use Only