________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८८
चरक संहिता |
[ रसायनपाद २
रसायनानि प्रयोक्तुमर्हति । इत्युक्त्वा भगवान् पुनर्व्वसुरात्रेय उवाच । - आमलकानां सुभूमिजानां कालजानामनुपहत- गन्धवर्णरसानाम् पूर्णरसप्रमाणवीय्र्याणां स्वरसेन पुनर्नवाकल्कपादसंप्रयुक्तेन सर्पिषः साधयेत् आदकम् । अतः परं विदारीस्वरसेन जीवन्ती कल्कसंप्रयुक्तेन । अतः परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरीकल्कसंयुक्तेन । अनेन क्रमेणैककं शत
माणः सन्नहितान् यथोक्तमम्ललवणादीनाहारविहारान् सर्व्वानपास्यापक्षिय रसायनानि प्रयोक्तुमर्हतीति । रसायनमाह - आमलकानामित्यादि । सुभूमिजानां हिमवत्पर्व्वतानां वा यथोक्ता ये भूमिविभागास्तत्र या भूमिः साधुस्तत्र जातानाम् अनुपहतगन्धादीनामामलकानां स्वरसेन साध्यसर्पिपश्चतुर्गुणेन चतुःषष्टिशरावोन्मतेन श्वेतपुनर्नवाकल्केन साध्यसर्पिषः पादिकेन चतुःशरावोन्मितेन आर्द्रत्वेऽप्यद्विगुणेन संप्रयुक्तेन सर्पिषः पुराणस्य गव्यस्याढकं द्रवत्वेन द्वैगुण्यात् षोड़शशरावोन्मितं मृदुना अग्निना साधयेत् । द्रवावसाने सति तत्कल्कमपनीय अतः परं विदारीखरसेन तदघृतचतुर्गुणेन जीवन्तीकल्केन तदघृतपादिकेन संप्रयुक्तेन पुनः साधयेत्। पुनस्तद् द्रवक्षये सति तत्कल्कमपनीयातः परं तद्घृताच्चतुगुणेन पयसा गव्यदुग्धेन चतुर्गुणेन बलातिबलयोः पीतश्वेतवाट्यालकयोः कषायेण शतावरीकल्केन तद्घृतपादिकेन सह संप्रयुक्तेन तत्सर्पिष आढकं पुनः साधयेत् । " जलस्नेहौषधानान्तु प्रमाणं यत्र नेरितम् । तत्र स्यादौषधात् स्नेहः स्नेहात् तोयं चतुर्गुणम्" इति वचनेनात्र सर्पिषः सम्पूर्णप्रयोगमानज्ञापनार्थम् आढकमानमुक्तं, तस्य चतुगुणं द्रवं पादिकश्च कल्कः सिध्यति, तेन तृतीयपाके पयसो बलातिबलाकषाययोः प्रत्येकं चतुर्गुणमानं न लभ्यते तद्वचनबाधकेन । “पञ्च प्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ । तत्र स्नेहसमान्याहुरव्वक् च स्यात्
दूषणत्वेन निद्दिशन्नाह--सर्व्वं इत्यादि । तिलः सुचूर्णितस्तिलः, पललं तिलचूर्णम् । अतो निमित्तमिति ग्राम्याहारादिकारणकम् । शुक्रं न प्रवर्त्तत इति नोत्पद्यते शुक्रमित्यर्थः ॥ २३ ॥
For Private and Personal Use Only