SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः] चिकित्सितस्थानम्। २२८७ सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्ललवणकटुकक्षारशुष्कशाकमाषतिलपललपिष्टान्नभोजिनां विरूदनवशकशमीधान्य-विरुद्धासात्म्यरुक्षाभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपmषितभोजिनां विषमाशनाध्यशनप्रियाणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामसंक्षोभितशरीराणां भयक्रोधलोभमोहशोकायासबहुलानाम् । अतो निमित्ताद्धि शिथिलोभवन्ति मांसानि विमुच्यन्तै सन्धयो विदह्यते रक्तं विष्यन्दते चानल्पं मेदो न सन्धीयतेऽस्थिषु मज्जा शुक्रन प्रवर्त्तते क्षयमुपैत्योजः। एवम्भूतो ग्लायति सीदति निद्रातन्द्रालस्यसमन्वितोऽनारतम् आशु चैव श्वसित्यसमर्थश्चेष्टानां शारीरमानसानां नष्टस्मृतिबुद्धिच्छायो ® न सर्वमायुरवाप्नोति। तस्मात् एतान् दोषानवेक्षमाणः सर्वान् यथोक्ताहितानपास्य आहारविहारान् ___ गङ्गाधरः-पुरावृत्तमुक्त्वा रसायनस्यास्य सेवायां प्रवृत्तिकारणमाहसर्वे इत्यादि। सव्व शरीरदोषा वातपित्तकफाः ग्राम्याहाराद्भवन्ति। ग्राम्याहारान् विकृणोति अग्ललवणेत्यादि । विरूढ़ेत्यादि । विरूढमङ्कुरितं नवं नूतनं शूकधान्यादिकं तत्कृतान्नादिकं तथा विरुद्धं संयोगतः परस्परं विरुद्धं यजःपुरुषीयोक्तम्, असात्म्यं सात्म्यीभूताहारादन्यमाहारं, रुक्षम् अभिष्यन्दिनं स्रोतःक्लेदीकरश्चाहारं भोजिनाम्। तथा क्लिन्नादिभोजिनां तथा विषमाशनम् अकाले वहु चाल्पं वा भुक्तन्तु विषमाशनम्, अध्यशनं पूर्वदिनाहाराजीणे यद्भोजनं तदध्यशनं तयोः प्रियाणाम् । अतोऽललवणादितो निमित्तात् तेषाम् अनल्पमधिकं मेदो विष्यन्दते अस्थिषु मज्जा च न सन्धीयते ओजश्च क्षयमुपैति । एवम्भूतः शिथिलीभूतमांस इत्येवमादिरूपः सन् ग्रामीणो ग्लायतीत्येवमादि। अनारतं सततमाशु श्वसिति शारीरमानसानाश्च इष्टानाम् असमौ भवति। तस्माद् ग्रामवासी एतान् शिथिलीभूतमांसखादीन् सर्वानवेक्षपुरावृत्तिकथनेन रसायनानि वक्ष्यमाणानि प्रवृत्त्यर्थ स्तौति । रसायनप्रयोगे वजनीयं ग्राम्याहारादि * रोगाणामधिष्ठानभूतः इत्यधिकः पाठः क्वचित् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy