________________
Shri Mahavir Jain Aradhana Kendra
२२८६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥
[ रसायनपाद २
प्राणकामाः शुश्रूषध्वमिदमुच्यमानम् अमृतमिवापर मदितिसुत हितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रा तन्द्रा-श्रमलमालस्यदौर्बल्या पहर मनिल कफपित्त साम्यकर स्थैर्य्यकर मबद्धमा सहर मन्तर ग्निसन्धुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम् । अनेन च्यवनादयो महर्षयः पुनः युवत्वमापुः नारीणाञ्च ष्टतमा बभूवूः स्थिरसमसुबिभक्तमांसाः सुसंहत स्थिरशरीराः सुप्रसन्नबलवर्णेन्द्रियाः सर्व्वत्राप्रतिहतपराक्रमाः सर्व्वशसहाश्च ॥ २ ॥
गङ्गाधरः-- अथात इत्यादि । अथाभयामलकीयरसायनपादव्याख्यानन्तरमतोsवधि प्राणकामीयं प्राणकाममधिकृत्य कृतं रसायनपादं व्याख्यास्यामः ॥ १ ॥
गङ्गाधरः-- प्राणकामा इत्यादि । भोः प्राणकामाः ! मयोच्यमानमिदमदितिसुत हितकरमादितेयानां देवानां हितकरममृतमिवापरं रसायन विधानमचिन्त्याद्भूतप्रभावमित्येवमादिरूपं शुश्रूषध्वम् । अनेन च्यवनादयश्च्यवन वश्यमुन्यादयः । इष्टतमा अभिमततमाः । स्थिर समसुविभक्तमांसाः स्थिरमश्लथं समं यत्राङ्गे यदुचितं तत्र तथारूपेण न विषमत्वेन सुष्ठु शोभनतया विभक्तं विभागीभूतं मांसं शरीरेषु येषां ते तथा । सुसंहतस्थिरशरीराः शोभमानं संहतं संघातीभूतं स्थिरं दृढ़ शरीरं येषां ते तथा ।। २॥
For Private and Personal Use Only
चक्रपाणिः - पूर्वपादे ह्यामलकरसायनान्युक्तानि, इहाप्यामलकरसायनानि सन्तीति प्राणकामीयमनन्तरमुच्यते । प्राणकामशब्दमधिकृत्य कृतमिति प्राणकामीयम् । निद्राहरत्वं रसायनस्य वैकारिकनिद्राहरत्वेन किंवा देववत् सर्व्वदा प्रबुद्धो निद्वारहितो भवति । तन्द्रालक्षणं तन्त्रान्तरे“इन्द्रियार्थेष्वसंवित्तिगौरवं जृम्भणं क्लमः । निद्रार्त्तस्येव यस्येहा तस्य तन्द्रां विनिद्दिशेत् ॥” इति । अबद्धमांसमनिविड़मांसम् । उत्तमानि प्रभादीनि करोतीति प्रभावर्णस्वरोत्तमकरम् एवंजातीयषश्च पूर्वनिपातानियमो ऽप्रतिबन्धेन चरके अस्ति मयूरव्यंसकादिपाठे द्रष्टव्यः । ' अनेन हि' इत्यादिना