________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] चिकित्सितस्थानम् । २२८५ न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते। गतिं स देवर्षिनिषेवितांशुभां प्रपद्यते ब्रह्म तथैतिचाक्षरम् ॥२६॥
तत्र श्लोकः। अभयामलकीयेऽस्मिन् पड़ योगाः परिकीर्तिताः। रसायनानां सिद्धानामायुयैरनुवर्तते ॥३०॥ इत्यग्निवेशकूते तन्त्र चरकप्रतिसंस्कृते चिकित्सितस्थाने प्रथमाध्याये अभयामलकीयं नाम रसायनपादः
प्रथमः॥१॥ रसायनपरा' महर्षयः वर्षसहस्राणि जरादिकं न जग्मुः। तर्हि किं रसायनाद दीर्घायुरेव स्यान्नान्यदित्यत उच्यते न केवलमित्यादि। यो विधिवद् रसायनं निषेवते, स केवलं न दीर्घायुरेवेह भूलोकेऽश्नुते, देवर्षिनिषेवितां शुभां गतिश्च प्रपदाते। तथा अक्षरं ब्रह्म चैति निर्वाणमुक्तिं प्रामोति इति ॥२९॥
गङ्गाधरः पादार्थमुपसंहरति-तत्र श्लोक इति। अभयामलकीयेऽस्मिन् रसायनपादे षड् योगा रसायनानां परिकीर्तिताः। यै रसायनयोगैरायुरनुवत्तते। इति ॥३०॥
पादं समापयति-अग्नीत्यादि। बैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सित
स्थाने अभयामलकीये रसायनपादः प्रथमः ॥१॥
ब्रह्म मोक्षः, मोक्षसाधनत्वन्चेह रसायनविशुद्धसत्त्वकर्तृतयोच्यते। अभयेत्यादिना सन्देहनिरासार्थमुक्तप्रयोगसंख्यां दर्शयति। एवमन्यत्रापि संख्याप्रणयनमन्ते ज्ञेयम् ॥ २८-३०॥ इति महामहोपाध्याय-चरकचतुरानन श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां .. चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायामभयामलकीयरसायनपाद
व्याख्या नाम प्रथमः पादः ॥१॥
२८७
For Private and Personal Use Only