________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता ।
२२८४
शर्कराभ्यामपि च संनीय आमलकस्वर सशतपलपीतम् ग्रामलकचूर्णम् अयश्चूर्णचतुर्भागसंप्रयुक्तं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्रयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकम् अनीयात् । त्रिवर्षप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठति श्रुतमवतिष्ठते सर्व्वामयाः प्रशाम्यन्ति विषमविषं भवति गात्र गात्रमश्मवत् स्थिरीभवत्यधृष्यो भूतानां भवतीति ॥ २८ ॥ भवन्ति चात्र । यथामराणाममृतं यथा भोगवतां सुधा । तथाभवन्महर्षीणां रसायनविधिः पुरा ॥ न जरां न च दौल्यं नातुर्य्यं निधनं न च । जग्मुर्वर्षसहस्राणि रसायनपराः पुरा ॥
रसायनपादः १
विधायापरेऽपि योगास्तेनैव यत्र विहितास्तव कल्कनिग्रहावुभाविष्येते नान्यत्रेति । तदप्यसत् अनार्षत्वात् सुश्रुतविरोधाच्च निय्र्यहाभावे स्वल्पगुणत्वापत्तेश्चेति । काथ्याच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् । स्नेहात् स्नेहस क्षीरं कल्कस्तु स्नेहपादिकः । इति । तेन सिद्धेन सर्पिषा मिलिताभ्यां मधुशर्कराम्यां तत् सर्पिःपादिकाभ्याञ्च संनीय मिश्रीकृतेन मारितपुटितलौहचूर्णचतुर्थाशयुक्तमामलकचूर्णमामलकस्वरसेन सप्ताहं भावितं संनीय मिश्रयित्वा पाणितलं कर्षमात्रं यथाविधि कुटीं प्रविश्य प्रातः प्रातः प्राश्य सायं रात्रौ मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नमश्नीयात् । अस्य त्रिवर्षप्रयोगादित्यादिनाशीः ॥ २८ ॥ इति पष्ठो रसायनप्रयोगः ।
गङ्गाधरः - रसायनस्य सामान्यतो गुणमाह- भवन्ति चात्रेत्यादि । यथा - मराणामित्यादि । अमराणां यथा अमृतं यथा च नागानां सुधा, तथा महर्षीणां रसायनविधिः पुराऽभवन्न त्वनुषीणाम् । न जरामित्यादि । पुरा
For Private and Personal Use Only
चक्रपाणिः - अमृतवल्ली गुड़ची, सोमवल्को विट्खदिरः, क्षीरसर्पिर्मधुशर्कराणामयश्च पूर्णस्य चतुर्थभागः, यत एतदयश्च र्णचतुर्थभागः, अत एवास्मिन् प्रयोगे जतूकर्णेन " अयश्व र्णपादयुक्तम्” इति कृतम् । अमराणाममृतं जरादिहरं नागानाञ्च सुधा जरामरणहरीत्युभयोपादानं दृष्टान्ते,