________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्यायः
३
१३श अध्यायः] चिकित्सितस्थानम्। २८३३
उदावर्तरुजानाहर्मोहतुड़ दहनज्वरैः। गौरवारुचिकाठिन्यैरनिलादोन् यथाक्रमम् ॥ लिङ्गः प्लीहाधिका तृष्णा रक्तश्च पित्तलक्षणैः। विद्यात् समस्तैः सबैस्तु सन्निपातं तथा भिषक् ॥ चिकित्सां संप्रयुञ्जीत यथादोषं यथावलम् । स्नेहं स्वेदं विरेकञ्च निरूहमनुवासनम् ॥ समीक्ष्य कारयेद् बाहो वामे वा व्यधयेत् सिराम् । षट्पलं पाययेत् सर्पिः पिप्पलीर्वा प्रयोजयेत् ॥ सगुड़ां वाभयां वापि क्षारारिष्टगणांस्तथा। एष क्रियाक्रमः प्रोक्तो योगान् संशमनान् शृणु ॥४३॥ गङ्गाधरः-सन्निपातोदरचिकित्सितानन्तरं प्लीहयकृदुदरचिकित्सितमाहउदावर्तेत्यादि। प्लीह्नि उदावर्तरुनानाहै लिङ्गरनिलं मोहड़ दहनज्वरी पित्तं गौरवारुचिकाठिन्यैः कर्फ विद्यात्, तथा तैः समस्तः सर्व्वस्तु लिङ्गैः सन्निपात त्रिदोषं प्लीहि भिषग विद्यात् । रक्तश्च प्लीह्नि पित्तस्खलक्षणैर्विद्यात्, तत्र तृष्णा चाधिका। एवं दोषं ज्ञात्वा प्लीनि यथा चिकित्सेत् तदाह-चिकित्सामित्यादि। यथादोषं वातादिदोषहरं यथाबलं स्नेहादिकं समीक्ष्य कारयेत् । रक्ते तु वामे बाहौ सिरां व्यधयेत् । षट्पलकं घृतं वा पाययेदथवा पिप्पलीः प्रयोजयेत्। सगुडामित्यादि। सगुड़ामभयां वा प्रयोजयेदथवा क्षारगणान् प्रयोजयेदरिष्टगणान् वा ॥४३॥
चक्रपाणि:-प्लीहोदरचिकित्सामाह-- उदावर्तेत्यादि। अनिलादीन् यथाक्रममिति उदावतरुजानातिं दाहमोहतृषाज्वरैः पित्तं, शेषैः कर्फ दृष्ट्वा चिकित्सा कुर्चीत। किंतु बाधित रक्तं तल्लक्षण वा चिकित्सां कुर्वीत । तव रक्तस्य लक्षणानि विधिशोणितीयोक्तानि । तन्त्रान्तरे विदाहस्तृष्णा वैरस्यं गावगौरवं मूर्छा इत्यादीनि ज्ञेयानि । प्लीह्नीति प्लीहोदरे। यथादोषम् इति उल्वणदोषप्रशमनीम् । वामे बाहौ सिराव्यधः सामान्योक्तोऽपि सुश्रुतप्रत्ययात् कूपराख्या सिराव्यधो ज्ञेयः। पिप्पलीर्वा प्रयोजयेदिति रसायनोक्तपिप्पलीवर्द्धमानं प्रयोजयेत् । क्षारारिष्टगणानिति ग्रहण्य♚वक्ष्यमाणक्षारारिष्टसमूहान्। इहापि च विडङ्गमित्यादिना क्षारं तथा रोहितकलतेत्यादिनारिष्टच वक्ष्यति ॥ ४३ ॥
For Private and Personal Use Only