________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८३४
चरक-संहिता। [ उदरचिकित्सितम 'पिप्पली नागरं दन्ती समांशं हिङ्गुनाभयम् छ । विद्धांशयुतं चूर्णमिदमुष्णाम्बुना पिबेत् ॥४४॥ विङ्ग चित्रकं शुण्ठों सघृतं सैन्धवं वचाम् । दग्ध्वा कपाले पयसा गुल्मप्लोहापहं पिबेत् ॥ ४५ ॥ रोहीतकलतानान्तु काण्डकानभयाजले। मूत्रे वा सुनुयात् तच्च सप्तरात्रं स्थितं पिबेत् ॥ कामलागुल्ममेहार्श-नीहसोंदरक्रिमीन् । स हन्याजागलरसैर्जीणे स्याचात्र भोजनम् ॥ ४६॥ रोहीतकत्वचः कृत्वा पलानि पञ्चविंशतिम् । कोलद्विप्रस्थसंयुक्तां कषायमुपकल्पयेत् ॥ गाधरः-इति क्रियासूत्रमुक्त्वा योगानाह–पिप्पलीत्यादि। पिप्पल्यादिपञ्च समांश विड़ लवणमर्द्धभागमित्येतचूर्णम् ॥४४॥
गाधरः-विडङ्गमित्यादि। विहङ्गादीनि पञ्च द्रव्याणि समभागेन नीला कुदृयिवा किश्चिद्घृतं म्रक्षयित्रा हण्डिकाभ्यन्तरेऽन्तर्दूमं दग्ध्वा पयसा पाययेत् ॥४५॥
गाधरः-लोहीतकेत्यादि। लोहीतकः प्लीहशत्रुर्नाम वृक्षस्तस्य लतावत्पशाखानां काण्डांश्छित्त्वा हरीतकीजले काथे सप्तरात्रं स्थितं सुनुयात् । अथवा गोमूत्रे स्थितं सप्तरात्रं सुनुयात्। तच्च सन्धानं पिबेत् । तत्र जीर्णे जाङ्गलमांसरसौजनं यः कुर्यात् स कामलादीन् हन्यात् ॥४६॥
गङ्गाधरः-रोहीतकवच इत्यादि। रोहीतकस्य वचः पलानि पञ्चविंशति कोलस्य शुष्कबदरस्य द्विपस्थसंयुक्तां कृखा मिलितादष्टगुणे जले पत्या - चक्रपाणि:-द्विगुणाभयमिति द्विभागाभयम् ॥ ४४ ॥ ४५ ॥
चक्रपाणिः-रोहितकलता रोहितक इति ख्याता। काण्डका इति स्वल्पप्रमाणाः खण्डाः । आसुनुपादिति द्रवे मग्नाः कृत्वा सन्धानार्थ स्थापयेत् ॥ ४६॥ चक्रपाणिः-रोहितकेत्यादौ सप्तपञ्चाशत्पलकाथ्योऽष्टगुणमुदकं दत्त्वा पादावशेषेण द्विपलोपेत* पिप्पली नागरं दन्ती समांशं द्विगुणाभयम् । इति कचित् पाठः ।
-
पाठः। .
.
....
"
For Private and Personal Use Only