________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८३२
चरक-संहिता। ( उदरचिकित्सितम् पुनः क्षीरप्रयोगश्च वस्तिकर्म विरेचनम्। . क्रमेण ध्रुवमातिष्ठन् युक्तः पित्तोदरं जयेत् ॥ ४०॥ स्निग्धस्विन्नविशुद्धञ्च कफोदरिणमातुरम् । संसञ्जयेत् कटुवार-युक्तरन्नैः कफापहः ॥ गोमूत्रारिष्टपानैश्च चूर्णायस्कृतिभिस्तथा। सक्षारैस्तैलपानश्च शमयेत् तु कफोदरम् ॥४१॥ सन्निपातोदरे सर्वा यथोक्ताः कारयेत् क्रियाः।
सोपद्रवन्तु निर्वृत्तं प्रत्याख्येयं विजानता ॥ ४२ ॥ पुनः क्षीरमयोगः केवलगव्यदुग्धपानं जातवले पुनर्वस्तिकर्म द्विविधं ततो विरेचनमित्येवं क्रमेण युक्तो योगप्रयुक्तः समातिष्ठन्नास्थितः सन् ध्रुवं पित्तोदरं जयेत् । पित्तोदरचिकित्सितमित्युक्तम् ॥४०॥
गङ्गाधरः-अथ कफोदरचिकित्सितमाह-स्निग्धेत्यादि। कफहरस्नेहः स्निग्धं ततः स्विन्नं स्नेदाधिकारविधिना ततः शुद्धं वमनविरेचनाभ्यां कफोदरिणमातुरं कफापहः कटुक्षारयुक्तश्चान्नैः संसर्जयेत् संसर्जनं कुर्य्यात् । गोमूत्रारिष्टयोः पानश्चगरौषधैरयस्कृतिभिः लौह क्रियाभिः, सक्षारैः क्षारसिद्धतैलपानश्च कफोदरं शमयेत् । इत्युक्तं कफोदरचिकित्सितम् ॥४१॥ __ गङ्गाधरः-अथ सन्निपातोदरचिकित्सितमाह- सन्निपातेत्यादि। सनिपातोदरे यथोक्तं प्रतिदोषं या या क्रियोक्ता तां तामनतिक्रम्य तास्ता एव सर्वा मिलिताः क्रियाः भिषक् कारयेत् । यदि सन्निपातोदरं सोपद्रवं निर्वृत्तं भवति, तदा विजानता वैद्य न प्रत्याख्येयं त्यक्तव्यमिति ॥४२॥ . द्रव्ययुक्तेन विरेचनं कर्तव्यम्। क्रमेणेति क्षीरप्रयोगादिक्रमेण पित्तोदरं जयेदिति योजना ॥४०॥
चक्रपाणि:-विशुद्धमित्यत्र वमनं विना विशुद्धो ज्ञेयः, वमनस्योदरे निषिद्धयात् । चूर्णयुक्तायस्कृतयः चूर्णायस्कृतयः नवायोरजसो भागं चूर्णन्तु मधुसर्पिषा इत्याद्य क्ताः। किंवा वर्णान्यतैव वक्ष्यमाणानि। अयस्कृतयस्तु रसायनोक्तलोहप्रयोगे ज्ञेयाः ॥४१॥ ....
चक्रपाणि:-सर्चा यथोक्ता इति प्रत्येकं वातोदरादिविहिताः क्रियाः सर्वा एव सन्निपातोदरे कर्तव्याः। सोपद्रवन्तु निवृत्तमिति सोपवतयोत्पन्नम् ॥ ४२ ॥
For Private and Personal Use Only