________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३ अध्यायः ]
चिकित्सितस्थानम् ।
अविरेच्यन्तु यं विद्याद् दुर्बलं स्थविरं शिशुम् । सुकुमारं प्रकृत्याल्प-दोषं वाथोल्वणानिलम् ॥ तं भिषक् शमनैः सर्पिर्यूषमांसरसौदनैः । वस्त्यभ्यङ्गानुवासैश्च क्षीरैश्चोपाचरेद् बुधः ॥ ३६ ॥ पित्तोदरे तु बलिनं पूर्व्वमेव विरेचयेत् । दुर्व्वन्त्वनुवास्यादौ शोधयेत् क्षीरवस्तिना ॥ संजाते बकाया पुनः स्निग्धं विरेचयेत् । पयसा सत्रिवृत् कल्केनोरुवूकटतेन वा ॥ शातला त्रायमाणाभ्यां श्रुतेनारग्बधेन वा । सकफे वा समूत्रेण सवातै तिक्तसर्पिषा ॥
२८३१
गङ्गाधरः- अविरेच्यमित्यादि । यदि स वातोदरी न विरेचनार्हो भवति दुब्वेंलो वा स्थविरो वा शिशुर्वा सुकुमारो वा प्रकृत्याल्पदोषो वा अथवा उल्वणानिलः स्यात् तदा तं सर्पिरादिभिः शमनैः वस्तिनाभ्यङ्गेनानुवासनेन क्षीरपाणेन च बुधो भिषगुपाचरेत् । इति वातोदरचिकित्सितमुक्तम् ॥ ३९ ॥
गङ्गाधरः-- अथ पित्तोदरचिकित्सितमाह - पित्तोदरे खित्यादि । पित्तोदरे बलिनमुदरिणं पूर्वं विरेचयेत् । दुर्बलन्तु पुरुषमादावनुवास्य क्षीरवस्तिना निरुहेण शोधयेत्; बले संजाते संजाते कायानौ पुनः स्निग्धं कृत्वा विरेचयेत् । तद्विरेचनमाद - पयसेत्यादि । पयसा विरेचयेदथवा त्रिवृत्कल्केन विरेचयेत् अथवा उरुवकवीजस्य शृतेन काथेन विरेचयेत् । अथवा शातला त्रायमाणाभ्यां शातला चमकशा त्रायमाणा पाणीयबहला । आरग्वधेन शृतेन कान वा विरेचयेत् । सकफे पित्तोदरे समूत्रेणारग्वधतेन विरेचयेत् । सवाते पित्तोदरे तिक्तसर्पिषा पञ्चतिक्त घृतेन विरेचयेत् । एवं विरेचनानन्तरं
For Private and Personal Use Only
चक्रपाणिः- अनुवासैरित्यनुवासनैः ॥ ३९ ॥
चक्रपाणि: - क्षीरवस्तिरिति क्षीरप्रधानो वस्तिः । सातला चर्मरूपा । सकफे इति कफयुके पित्ते । समूत्रेणेत्यस पयसेत्यनुवर्त्तते । सवाते दित्ते तिक्तसर्पिषा विरेचनं विघृतादि