SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kalasse २८३० चरक-संहिता। उदरनिनिमितम् शुद्धं संसृज्य च क्षीरं बलार्थ पाययेत् तु तम् । प्रागुत्न शान्निवत्यैवं बले लब्धे क्रमात् पयः ॥ ३५ ॥ यूषै रसैर्वा मन्दाम्ल-लवणैरेधितानलम् । सोदावत्तं पुनः स्निग्धं विन्नमास्थापयेन्नरम् ॥ ३६ ।। स्फुरणाक्षेपसन्ध्यस्थि-पार्श्वपृष्ठत्रिकार्तिषु । दीप्ताग्निं बद्धविड़ जातं रुक्षमप्यनुवासयेत् ॥ ३७॥ तीक्ष्णाधोभागयुक्तोऽस्य निरूहो दाशमूलिकः। वातघ्नाम्लशृतैरण्ड-तिलतैलानुवासनम् ® ॥३८॥ गङ्गाधरः-एवं विरेचनेन वस्त्रावेष्टनेन च क्रमेण सम्यक्छुद्धमुदरिणं संसृज्य मण्डपेयाविलेपीभिः क्रमेण संसर्जनं कृखा बलार्थ तमुदरिणं क्षीरं पाययेत् यावदुत्क्लेशो न स्यात् । बले लब्ध प्रागुत्क्लेशात् हृदयस्थदोषस्योपस्थितवमनभावात् पूर्व क्रमात् पयो निव] यूपैमुद्गादिकृतैमीसरसी मन्दाम्ललवणैर्दाडिमामलकादिभिः सैन्धवादिभिश्वाल्पाम्ललवणेभोजयिका तमुदरिणमेधितानलं प्रद्धाग्निं पुनः सोदावर्त्तमुदावत्तेंदोषश्चेत् तस्य पार्सले तदा पुनः स्निग्धं स्विन्नश्च तमुदरिणं नरमास्थापयेत् निरूहयेत् ॥ ३५ ॥ ३६॥ ___ गङ्गाधरः-स्फुरणेत्यादि। यदि तत्रोदरे स्फुरणाक्षेपौ सन्ध्यादिवसिंच वर्त्तन्ते, तदुदरी नरश्च दीप्ताग्निबद्धविट्समूहो रुक्षश्च भवति, तदा समहुवासयेत् स्नेहवस्तिना समुपपादयेत् ॥ ३७॥ गङ्गाधरः-तनिरूहणमाह-तीक्ष्णेत्यादि। अस्योदरिणो निरूहो दाशमलिकः, स च तीक्ष्णद्रव्याधोभागहरद्रव्ययुक्तः कार्यः। अनुवासचन्तु वातन्नद्रव्याम्लद्रव्यशृतस्यैरण्डतैलतिलतैलस्येति ॥३८॥ चक्रपाणिः- संसृज्येत्यत्र पेयादिक्रमेणोत्पाद्य । प्रागुत्क्लेशादिति उत्क्लेशे दृश्यमाने। कार्य कर्तव्यमित्यनुवर्तनीयम् । उत्सर्गतस्तु बलजनककार्यं कृत्वा पयो निवर्तनीयम् ॥ ३५-३७॥ चक्रपाणिः - वातघ्नादिभिः शृतमैरण्डतैलं वानुवासनं यस्य वस्तेः स तथा ॥ ३८ ॥ * वातनाम्ल.........तलानुवासनः इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy