________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३शभध्याय
१३श अध्यायाः चिकित्सितस्थानम् । २८२६
कर्कशं सृजतो वातं नातिमन्दे च पावके। लालया विरसे चास्ये मूत्रेऽल्पे संहते विषि ॥ अजातोदकमित्येतैयक्तं विज्ञाय लक्षणैः। उपाचरेद भिषग् दोष-बलकालविशेषवित् ॥ ३३ ॥ वातोदरं बलवतः पूर्व स्नेहैरुपाचरेत् । स्निग्धाय स्वेदिताङ्गाय दद्यात् स्नेहविरेचनम् ॥ हृते दोषे परिम्लानं वेष्टयेटु वाससोदरम् । तथास्यानवकाशत्वाद् वायुर्नाध्मापयेत् पुनः॥ दोषातिमात्रोपचयात् स्रोतोमार्गनिरोधनात् ।
सम्भवत्युदरं तस्मानित्यमेव विरेचनम् ॥ ३४ ॥ निःसरति। एवं हृदादिप्रत्येकानशूलवतः कर्कशशब्दमधोवातं मृजतो जनस्य पावकेनातिमन्दे लालया च विरसे चास्ये मूत्रे चाल्पे विषि पुरी संहते संघातरूपे सत्यजातोदकमुदरिणमित्येतेलक्षणयुक्तं विज्ञाय दोषादिविशेषविद् भिषगुपाचरेत्। एतद्भिन्न जातोदकादिकं वर्जयेदिति प्रागुक्तम् ॥३३॥ ___ गङ्गाधरः-अमेण वातोदरादिचिकित्सितमाह-वातोदरमित्यादि। स्नेहविधिना पूर्व बलवतो वातोदरं स्नेहः साधितघृतादिभिरुपाचरेत् । स्निग्धं पुनः स्वेदविधिना स्वेदयिवा स्नेहविरेचनमेरण्डतैलादिना विरेचयेत् । हृते दोषे सति परिम्लानमुदरं वाससा वेष्टयेत् यथा तदुदरं नावकाशयेत् । अनवकाशखाद वायुश्च पुनर्नोदरमाध्मापयेत्। इत्येवं विरेचनं नित्यमेव कारयेत् । कस्मात् ? दोषातिमात्रोपचयात् अतिमात्रदोषसञ्चयात् स्रोतसां मार्ग निरोधनात् उदरं सम्भवति यस्मात् तस्मानित्यं विरेचनं कारयेत् ॥३४॥ पुरीषं विसृज्येति यावत् । प्रणश्यतीति लीनं भवति। कर्कशमिति वेगवन्तम् । सृजत इति वातं सरतः ।। ३३ ॥
चक्रपाणिः-बातोदरमित्यादिना चिकित्सामाह। परिम्लानमिति क्षीणम् । तथेति वस्त्रवेपनेन। उदरे पुनः शोधनोत्पत्तिमाह-दोषेत्यादि। स्रोतोमार्गनिरोधनादिति स्रोतोमुखमिरोधनादित्यर्थः। मार्मशब्दोऽव मुखरूपमार्गवाची ॥ ३४॥
३५५
For Private and Personal Use Only