________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२८
चरक-संहिता। [उदरचिकित्सिनम श्वयथुः सर्वमम्मोत्थः श्वासो हिकारूचिस्तथा। मूर्छा छर्दिरतीसारो निहन्त्युदरिणं नरम् ॥ ३१ ॥ जन्मनैवोदरं सव्वं प्रायः कृच्छ्रतमं मतम् । बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ॥ ३२ ॥ अजातशोथमरुणं सशब्दं नातिभारिकम् । सदा गुड़गुड़ावन्तं सिराजालगवाक्षितम् ॥ नाभिं विष्टभ्य वायुस्तु वेगं कृत्वा प्रणश्यति ।
हृन्नाभिवक्षणकटो-गुदप्रत्येकशूलिनः ॥ वक्रशिश्नं नरं वक्रयोनि नारीम्, उपक्लिन्ना क्लिन्नवक्लिन्ना तनुरघना वक् यस्य तं, बलादिपरिक्षीणश्च वातादुरदरिणं वर्जयेत् ॥३०॥ - गङ्गाधरः-अपरञ्चासाध्यलक्षणमाह-श्वयथुरित्यादि। सर्चमम्मोत्थः श्वयथुः श्वासादिश्च वातादुरदरिणं निहन्ति। एकवचनादेकैक एव सर्वमम्मोत्थशोधादिः ॥३१॥ — गङ्गाधरः-वातजादिकमुत्तरोत्तरं कृच्छतमं किं तर्हि कृच्छमित्यत आहजन्मनैवेत्यादि। जन्ममात्रं सर्वमुदरं कृच्छतमं मतं, कथं कृच्छमुदरं स्यात् ? तत्र बलिनो जनस्याजाताम्बु तदुदरं यत्नसाध्यं नवोत्थितञ्च यनसाध्यमिति ॥३२॥
गङ्गाधरः कथमजाताम्बूदरं विशायेतेत्यत आह-अजातशोथमित्यादि। यमुदरिणं न जातशोथं किन्वरुणवर्णश्च सशब्दश्च नातिभारिकं नातिगुरु । सर्वदा उदरमध्ये यस्य गुड़गुड़ाशब्दः स्यात् । उदरोपरि सिराजालं गवाक्षाकारं यस्य स्यात् । यस्य वायु भिं विष्टभ्य वेगं कृता प्रणश्यति न सपक्लिमा तन्वी च स्वग यस्य स तथा। अग्निक्षयश्चोदरे प्रथमत एव यद्यपि भवति तथापि भसाध्यलक्षणेषु विशेषेणाग्निक्षयो लक्षणान्तरमुक्तञ्च भवतीति ज्ञेयम् ॥ ३० ॥३१॥ ...क्रपाणिः-जन्मनैवेत्युत्पत्तिमात्रेण ॥ ३२॥
चक्रपाणि:-अजाताम्बुलक्षणमाह-अजातशोथमिति । मातिभारिकमिति नातिगुरुणा भारेण युतम्। नाभिं विष्टभ्येति नाभिं स्तम्मयित्वा। कृत्वा वेगमिति पुरीषवातवेगं कृत्वा वात.
For Private and Personal Use Only